________________ श्रीशम्भवजिनस्तुतयः असमानमानाश्च ते मानवाश्च असमा० 'कर्मधारयः' / असमानमानमानवैर्महिता असमा० 'तत्पुरुषः' / तां असमा० / कजे याता कजयाता ‘तत्पुरुषः' / तां कज० / सह मानेन वर्तते यत् तत् समानम् 'तत्पुरुषः' / न समानं असमानम् ‘तत्पुरुषः' / यद्वा न विद्यते समानं यस्य तत् असमानम् ‘बहुव्रीहिः' / न विद्यते अवमं येषां तेऽनवमाः ‘बहुव्रीहिः' / अनवमानां हिता अनव० 'तत्पुरुषः' / तां अनव० / यद्वा आनश्च मानश्च आनमानौ 'इतरेतरद्वन्द्वः' / असमौ आनमानौ येषां ते असमानमानाः ‘बहुव्रीहिः' / असमानमानाश्च ते मानवाश्च असमा० 'कर्मधारयः' / असमानमानमानवैर्महिता असमा० 'तत्पुरुषः' / तां असमा० / / इति काव्यार्थः / / 12 / / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीशम्भवजिनस्तुतिवृत्तिः // 4 / 3 / 12 // सि० वृ०-शृङ्खलभृदिति / भो भव्य ! प्राणिन् ! तां श्रीवज्रशृङ्खलां-वज्रशृङ्खलाभिधां देवतां, श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनामादौ लोके प्रयुज्यते, असमानं-अनन्यसदृशं यथा स्यात् तथा आनमप्रणामं कुरु इत्यर्थः / आयूर्वक ‘णम प्रह्वीभावे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / हिः / ‘अप् कर्तरि' (सा० सू० 691) अप् / ‘आदेः ष्णः स्नः' (सा० सू०७४८) इति णकारस्य नकारः / अतः' (सा० सू०७०५) इति हेर्लुक् / तथा च आनम' इति सिद्धम् / लोट् इति संज्ञा पाणिनीयानाम् त्रयोदश स्वरमध्यः (?) / अत्र ‘आनम' इति क्रियापदम् / कः कर्ता ? | त्वम् / कां कर्मतापन्नाम् ? / वज्रशृङ्खलाम् / कथम् ? | असमानाम् / तामिति तच्छब्दस्याभिव्याप्य यच्छन्दघटनामाह-या वज्रशृङ्खला शृङ्खलभृत्-शृङ्खलं विभीति शृङ्खलभृत्, कनकनिभा-कनकस्यसुवर्णस्येव निभा-सादृश्यं यस्याः सा तथा / कान्तिकमनीयत्वसाम्यात् / “कल्याणं कनकं महारजतरैगांगेयरुक्माण्यपि” इति हैमः (का० 4, श्लो० 109) / अत्र वाक्ये अस्तीति क्रियाऽध्याह्रियते / "अहा विना न सूर्यः, सूर्यविहीनश्च वासरो नास्ति / कर्तृक्रिये तथैव हि, संपृक्ते सर्वदा भवतः // " __ - आर्या इति वचनात् / ततश्च ‘अस्ति' इति क्रियापदम् / का की ? या / कथंभूता ? / शृङ्खलभृत् / पुनः कथंभूता ? कनकनिभा / तां वज्रशृङ्खलां कथंभूताम् ? 'असमानमानमानवमहिताम्' असमानःअसाधारणो मानः पूजा बोधो वा येषां ते असमानमानाः, तादृशैः मानवैः-मनुष्यैः तेषामुपलक्षणत्वादन्यैर्देवादिभिरपि महिता-पूजिता ताम् / यद्वा असमौ-असाधारणौ आनमानौ-प्राणाहङ्कारौ येषां ते तथोक्ताः, तादृशैः मानवैः महितां-पूजिताम् / आस्तां तावदन्ये प्राणाहङ्कारवर्जिता नराः बहुप्राणाह