________________ 54 शोभनस्तुति-वृत्तिमाला वज्रशृङ्खलायै प्रणामःशृङ्खलभृत् कनकनिभा या तामसमानमानमानवमहिताम् / श्रीवज्रशृङ्खलां कज यातामसमानमानमानवमहिताम् // 4 // 12 // - आर्या ज० वि०-शृङ्खलभृदिति / भो भव्य !-प्राणिन् ! त्वं तां श्रीवज्रशृङ्खलां-श्रीवज्रशृङ्खलाभिधां देवतां, श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनामादौ लोके प्रयुज्यते, आनम-प्रणम प्रणामं कुरुष्वेत्यर्थः / कथम् ? 'असमानं' असाहङ्कारं यथा स्यात् तथा। अथवा असमानं-अनन्यसदृशं यथा स्यात् तथेति आनम / अत्र ‘आनम' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कां कर्मतापन्नाम् ? श्रीवज्रशृङ्खलाम्' / कथम् ? 'असमानम्' / तामिति तच्छब्दसाचिव्याद् यच्छब्दघटनामाह-या वज्रशृङ्खला / 'शृङ्खलभृत्' शृङ्खलं बिभर्तीति शृङ्खलभृत् / 'कनकनिभा' कनकस्य-सुवर्णस्येव निभा-सादृश्यं यस्याः सा तथा / कान्तिकमनीयत्वसाम्यात् / अत्र वाक्येऽस्तीति क्रियाऽध्याहियते / “अहा विना न सूर्यः सूर्यविहीनश्च वासरो नास्ति / कर्तृक्रिये तथैव हि, सम्पृक्ते सर्वदा भवतः // " - आर्या इति वचनात् / ततश्च ‘अस्ति' इति क्रियापदम् / का की ? 'या' / कथंभूता ? / 'शृङ्खलभृत्' / पुनः कथंभूता ? 'कनकनिभा' / तां वज्रशृङ्खलां कथंभूताम् ? 'असमानमानमानवमहिताम्' असमानःअसाधारणो मानः-पूजा बोधो वा येषां ते तथा, तादृशैर्मानवैः-नरैः, तेषां उपलक्षणत्वादन्यैर्देवादिभिरपि महितां-पूजिताम् / पुनः कथंभूताम् ? 'कजयाताम्' कजं-कमलं तत्र यातां-प्राप्ताम् / पङ्कजाधिरूढामित्यर्थः / पुनः कथंभूताम् ? 'अनवमहिताम्' अवमं-पापं न विद्यते येषां तेऽनवमास्तेभ्यो हितांहितकारिणीम् / यद्वा असमौ-असाधारणौ आनमानौ-प्राणाहङ्कारौ येषां ते तथा तादृशेर्मानवैर्महितापूजिताम् / आस्तां तावदन्ये प्राणाहकारवर्जिता नराः, बहुप्राणाहकारवद्भिरपि महितामित्यर्थः / / अथ समासः-शृङ्खलं बिभर्तीति शृङ्खलभृत् 'तत्पुरुषः' / कनकस्येव निभा यस्याः सा कन० 'बहुव्रीहिः' / न विद्यते समानं यस्य सोऽसमानः ‘बहुव्रीहिः' / असमानं मानं येषां ते असमा० 'बहुव्रीहिः' /