________________ श्रीशम्भवजिनस्तुतयः 53 (4) दे० व्या०-जिनराज्येति / मतं-गणिपिटकलक्षणं नः-अस्माकं इत्यध्याहारः, शिवशर्मणे मुक्तिसुखाय स्तात्-भूयादित्यन्वयः / ‘अस् भुवि' धातुः / ‘स्तात्' इति क्रियापदम् / किं कर्तृ ? / मतम् / कस्मै ? / शिवशर्मणे / शिवस्य शर्म शिवशर्म इति षष्ठीतत्पुरुषः' तस्मै / केषाम् ? / नः / किंविशिष्टं मतम् ? / 'आयतमानम्' आयतो-विपुलो मानः-पूजा परिमाणं वा यस्य तत् / पुनः किंविशिष्टम् ? / यतमान-प्रयत्नं कुर्वाणम् / पुनः किंविशिष्टम् ? / रचितं-प्रथितम् / कया ? / 'जिनराज्या' जिनानांतीर्थंकराणां राजिः श्रेणिः तया अर्थतस्तद्धाषि(त)त्वात् / किंविशिष्टया जिनराज्या ? / 'असमाननयानया' आननं-मुखं यानं-गमनं अनयोः पूर्वं 'द्वन्द्वः', ततः असमे-अनन्यकल्पे आननयाने यस्याः सा तया / किंविशिष्टया ? / अनया-प्रत्यक्षोपलक्ष्यमाणया / अत्र ‘रोर्यः' (सि० अ० 1, पा० 3, सू० 26) इति सूत्रेण इकारस्य यकारादेशः / पुनः किंविशिष्टया ? | ‘अयानया' नास्ति यानं-वाहनं यस्याः सा तया / पूर्वपदे यानपदेन गमनमेव व्याख्येयम् / अन्यथा अनेन सह विरोधः स्यात् / मतं किं कुर्वत् ? / दधत् / कान् ? / 'असमाननयान्' असमाना-अनन्यकल्पा ये नया नैगमादयः तान् / / इति तृतीयवृत्तार्थः / / 11 / / : ध० टीका-जिनराज्येति / "जिनराज्या रचितं' अर्हत्पङ्क्तया कृतम् / ‘स्तात्' भवतु / 'असमाननयानया' आननं-मुखं यानं-गमनं ते असमे-अद्वितीये आननयाने यस्यास्तया / 'नः' अस्माकम् / 'आयतमानं' अलघुप्रमाणम् / 'शिवशर्मणे' मोक्षसुखाय / ‘मतं' दर्शनम् / 'दधद्' धारयमाणम् / 'असमाननयान्' अनन्यसदृशनयान् / 'अयानया' अवाहनया / 'यतमान' प्रयलं कुर्वाणम् / जिनराज्या रचितं मतं शिवशर्मणे यतमानं न स्तादिति सम्बन्धः / / 11 / / (6) अवचूरिः (जिनराज्या) जिनानां राज्या श्रेण्या रचितं अर्थस्य तदुक्तत्वात् कृतं मतं शासनं नोऽस्माकं शिवसुखाय स्तात् भूयात् / किंभूतया / असमे निरुपमे आननयाने मुखगमने यस्यास्तया / नः इत्यत्र 'रोयः' इति रस्य यः / ‘स्वरे वा' इति विकल्पत्वात् तस्यात्र न लुक् / मतं किभूतम् / आयतो विपुलो 'मानः पूजा प्रमाणं वा यस्य तत् तथा / दधत् धारयत् / कान् / असमाननयान् असशनयान् / किंभूतया जिनराज्या / अयानया अवाहनया / मतं किंभूतम् / यतमानं प्रयत्नं कुर्वाणम् / / 11 // 1-2. इमे सूत्रे श्रीसिद्धहेमशब्दानुशासनस्य (अ० 1, पा० 3, सू० 26, 24).