SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 52 शोभनस्तृति-वृत्तिमाला ज्ञेयम् / कीदृशं मतम् ? / रचितम् / कया ? / जिनराज्या / मतं किं कुर्वत् ? दधत्-धारयत् / कान् ? / 'असमाननयान्' असमाना-असाधारणा ये नया-नैगमसंग्रहप्रभृतयः तान् / पुनः कीदृशं जिनम् ? / 'आयतमानम्' आयतं-अलघु मान-प्रमाणं पूजा वा यस्य तत् तथा / “मानं प्रमाणे पूजादौ, मानश्चित्तोन्नती गृहे” इति विश्वः / पुनः कीदृशम् ? / यतमानम्-यत्नं कुर्वाणम् / कीदृश्या-जिनराज्या ? | ‘असमाननयानया' आननं-मुखं यानं-गमनं, आननं च यानं च आननयाने 'इतरेतरद्वन्द्वः' ततः असमे आननयाने यस्याः सा तथा तया असमाननयानया इति 'वहुव्रीहिः' / पुनः कथंभूतया ? | ‘अयानया' यानं-वाहनं तन्न विद्यते यस्याः सा अयाना, तया अयानया / अवाहनत्वं चास्याः सर्वपरिग्रहत्यागादुचितमेव / “यानं गतौ वाहनेऽपि” इति विश्वः / / 11 // (3) सौ० वृ०-जिनराज्येति / जिनराज्या-जिनश्रेण्या रचितं-अर्थोपगतं मतं-प्रवचनं नः-अस्माकं शिवशर्मणे-मोक्षसुखाय स्तात् इत्यन्वयः / 'स्तात्' इति क्रियापदम् / किं कर्तृ ? मतम् / ‘स्तात्' भूयात् / कस्मै ? / शिवशर्मणे / केपाम् ? / 'नः' अस्माकम् / कथंभूतं मतम् ? / रचितम् / कया ? / जिनराज्या / किंविशिष्टया जिनराज्या ? / असमाने-निरुपमे आनन-मुखं यानं-गमनं मोक्षप्राप्तिलक्षणं यस्याः सा असमाननयाना, तया ‘असमाननयानया' / पुनः किंविशिष्टं मतम् ? / आयतः-विस्तीर्णः मानः-प्रमाणः पूजाविधिर्वा यत्र तत् ‘आयतमानम्' / मतं किं कुर्वत् ? / 'दधत्' धारयत् / कान् कर्मतापन्नान् ? | असमानाः-असदृशाः अतिगहनत्वात् नया-नैगमाद्याः द्रव्यास्तिकपर्यायास्तिकभेदाः, तान् ‘असमाननयान्' / किंविशिष्टया जिनराज्या ? / 'अयानया' अवाहनया / मतं किं कुर्वाणम् ? / 'यतमानं' यत्नं कुर्वाणम् / नः इत्यत्र विसर्जनीयस्य ‘स्वरे (परे) यत्वं वा' (सा० सू० 112) इत्यनुभूतिः, रोर्यः' (सि० अ० 1, पा०३, सू० 26) इति रस्य यः, 'स्वरे वा' इति हैमः (सि० अ० 1, पा० 3, सू० 24) / इति पदार्थः // अथ समासः-जिनानां राजिः जिनराजिः, तया जिनराज्या / आननं च यानं च आननयाने, न समाने असमाने, असमाने आननयाने यस्याः सा असमाननयाना, तया असमाननयानया / आयतो मानो यस्मिन् तत् आयतमानम् / शिवस्य शर्म शिवशर्म, तस्मै शिवशर्मणे / दधातीति दधत् / न समानाः असमानाः, असमानाश्च ते नयाश्च असमाननयाः, तान् असमाननयान् / नास्ति यानं यस्याः सा अयाना, तया अयानया / यतते तत् यतमानम् / / इति तृतीयवृत्तार्थः / / 11 / / अत्र यथाक्रम (1) असमे, (2) समे, (3) असमे, (4) असमे एवं पदशुद्धिर्भाव्यताम् /
SR No.004429
Book TitleShobhan Stuti Vruttimala Part 01
Original Sutra AuthorN/A
AuthorRihtvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages234
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy