________________ श्रीशम्भवजिनस्तुतयः ज० वि०-जिनराज्येति / जिनराज्या-तीर्थकरपङ्क्तया रचितं-कृतं प्रणीतमिति यावत् मतं-दर्शनं नः-अस्माकं शिक्शर्मणे-मोक्षमुखाय स्तात्-भवत्विति क्रियाकारकयोजना / अत्र 'नः' इति पदं अस्मच्छब्दस्य षष्ठीबहुवचनम् / तच्च द्वितीयपदान्ते वर्तमानात् तथा यतमानमित्यस्मात् पदात् ‘स्वरे यत्वं वा' (सा० सू० 112) इति सूत्रेण कृतं सन्धि विश्लिष्य ज्ञेयम् / तथाऽत्र ‘स्तात्' इति क्रियापदम् / किं कर्तृ ? 'जिनमतम्' / कस्मै ? 'शिवशर्मणे' / केषाम् ? 'नः' / मतं कथंभूतम् ? 'रचितम्' / कया ? 'जिनराज्या' / मतं किं कुर्वत् ? 'दधत्' धारयत् / कान् कर्मतापन्नान् ? 'असमाननयान्' असमानाअसाधारणा ये नया-नैगमसंग्रहप्रभृतयः तान् / जिनमतं पुनः कथंभूतम् ? 'आयतमान' आयतं-अलघु मान-प्रमाणं यस्य तत् तथा / पुनः कथंभूतम् ? 'यतमानम्' यत्नं कुर्वाणम् / जिनराज्या कथंभूतया ? 'असमाननयानया' आननं-मुखं यानं-गमनं गतिरिति यावत्, ते असमे-असाधारणे यस्याः सा तथा तया / पुनः कथंभूतया ? 'अयानया' यानं-वाहनं तत् न विद्यते यस्याः सा तथा तया / अवाहनत्वं चास्याः सर्वपरिग्रहपरित्यागादुचितमेव / / अथ समासः-जिनानां राजी जिनराजी 'तत्पुरुषः' / तया जिन० / आननं च यानं च आननयाने : 'इतरेतरद्वन्द्वः' / असमे आननयाने यस्याः सा असमा० 'बहुव्रीहिः' / तया असमा० / आयतं मानं यस्य तत् आयतमानम् बहुव्रीहिः' / शिवस्य शर्म शिवशर्म 'तत्पुरुषः' / तस्मै शिव० / असमानाश्च ते नयाश्च असमा० 'कर्मधारयः' / तान् असमा० / न विद्यते यानं यस्याः सा अयाना 'बहुव्रीहिः' / तया अयानया / / इति काव्यार्थः / / 11 / / (2) ____ सि० वृ०-जिनराज्येति / जिनानां राजिः जिनराजिः, तया जिनराज्या-जिनपङ्क्तया रचितं-प्रणीतं मतं-दर्शनं नः-अस्माकं शिवशर्मणे-मोक्षसुखाय स्तात्-भवतु इत्यर्थः / “शिवं निःश्रेयसं श्रेयो, निर्वाणं ब्रा निर्वृतिः” इति हैमः / ‘अस् भुवि' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् तुप् / 'तुह्योस्तात (सा० सू० 704) इति तुह्योस्तातङ्, 'नमसोऽस्य' (सा० सू० 899) इत्यकारलोपः / तथा च ‘स्तात्' इति सिद्धम् / अत्र ‘स्तात्' इति क्रियापदम् / किं कर्तृ ? / जिनमतम् / कस्मै ? / 'शिवशर्मणे' शिवस्य-मोक्षस्य शर्म शिवशर्म, तस्मै शिवशर्मणे / केषाम् ? / नः / अत्र नः इति पदम् अस्मच्छब्दस्य षष्ठीबहुवचनस्य अस्माकं इत्यस्य विशेषादेशः / तच्च द्वितीयपदान्ते वर्तमानात् नयायतमानं इत्यस्मात् पदात् ‘स्वरे यत्वं वा' (सा० सू० 112) इति सूत्रेण कृतसंधि विश्लिष्य 1. 'तथा यतमान' इति पदरचनायाः प्रकरणार्थनिरपेक्षत्वादत्र 'नयायतमान' इति पदन्यासः प्राकरणिकः भासते /