________________ शोभनस्तुति-वृत्तिमाला वा / हे 'स्तुत' ! स्तुतिगोचरीकृत ! / कैः ? / 'आनमदमरैः' आ-समन्तात् नमन्तः-प्रणामं कुर्वन्तः ये अमराः-देवाः तैः / कथम् ? / अरं-अत्यर्थं यथा स्यात् तथेति क्रियाविशेषणम् / हे रहित' ! हे विमुक्त ! / कैः ? | ‘मारमानमदमरैः' मारः-कामः, मानः-स्मयः, मदो-मुन्मोहसंभेदः, मरो-मरणं एतेषां द्वन्द्वः तैः / हे 'विभय' ! विगतं भयं यस्य, यस्मात् वा स तस्यामन्त्रणम् / हे 'अपरमार' ! परान्-शत्रून् मारयतीति परमारः, न परमारः अपरमारः तस्यामन्त्रणम् / “प्रतिपक्षः परो रिपुः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 392) / / इति द्वितीयवृत्तार्थः / / 10 / / / ध० टीका-आश्रयत्चिति / ‘आश्रयतु' आलीयताम् / 'तव प्रणतं' भवतो विनतम् / 'विभया. परमा' प्रभया प्रकृष्टा / 'रमा' लक्ष्मीः / ‘अरं' शीघ्रम् / 'आनमदमरैः' आनमन्तश्च ते अमराश्च तैः / 'स्तुत !' वन्दित ! / 'रहित !' त्यक्त ! / 'जिनकदम्बक !' तीर्थकृत्समाज ! / 'विभय !' विगतत्रास ! / 'अपरमार!' न परान् मारयति यस्तस्यामन्त्रणम् / ‘मारमानमदमरैः' मारश्च मानश्च मदश्च मरश्चेति द्वन्द्वः / हे जिनकदम्बक ! आनमदमरैः स्तुत ! मारमानमदमरैः रहित ! तव प्रणतं रमा आश्रयतु इति सम्बन्धः / / 10 // अवचूरिः हे जिनकदम्बक ! जिनसमूह, रमा लक्ष्मीस्तव प्रणतं नरमाश्रयतु / किंभूता / विभया रोचिषा परमा प्रकृष्टा / अरं शीघमानमन्तश्च ते सुराश्च तैः स्तुत वन्दित ! / हे विगतभय ! / हे न परान् मारयतीत्यपरमार सर्वजन्तुरक्षक ! / हे रहित त्यक्त ! / कैः / काममानमदमरणैः / / 10 // जिनमतस्य प्राधान्यम्जिनराज्या रचितं स्ता दसमाननयानया नयायतमानम् / शिवशर्मणे मतं दध दसमाननयानयानया यतमानम् // 3 // 11 // - आर्या 1. 'नयाऽऽयतमानम्' इत्यपि पाठः / 'नयायतमानम्' इत्यपि पाठः /