________________ श्रीशम्भवजिनस्तुतयः आनमदमरैः / हे 'रहित' ! त्यक्त ! / कैः ? / 'मारमानमदमरैः' मारः-कामः मानः-अभिमानः मद:मुन्मोहसम्भेदः जात्याद्यष्टविधो वा मरो-मरणं तैः / मारश्च मानश्च मदश्च मरश्च इति 'द्वन्द्वः' / हे 'विभय' ! विगतं भयं यस्मात् स विभयः, तस्य सम्बोधनं हे विभय ! / हे 'अपरमार' ! परान् प्राणिनः शत्रून् वा मारयतीति परमारः, न परमारः अपरमारः, तस्य संवोधनं हे अपरमार ! / “शत्रौ प्रतिपक्षः परो रिपुः / शात्रवः प्रत्यवस्थाता” इति हैमः (का० 3, श्ला० 392) / समशत्रुत्वादिति भावः / / 10 / / सौ० वृ०-आश्रयत्विति / हे 'जिनकदम्बक' / तीर्थंकरसमूह ! / आनमन्तः-प्रणमन्तः ये अमरादेवाः तैः ‘आनमदमरैः' / हे 'स्तुत' ! हे वन्द्य ! | मारः-कामः मानो-दर्पः मदश्च अष्टविधो जात्याद्यवलेपः मरः-मारी तैः मारमानमदमरैः' कृत्वा हे 'रहित' ! त्यक्त ! / हे 'विभय' ! त्यक्तभय ! / परान्-परजनान् मारयतीति परमारः, न परमारः अपरमारः, तस्य सं० हे 'अपरमार' ! सर्वजीवरक्षक ! इत्यर्थः / रमालक्ष्मीः तव प्रणतं-तीर्थंकरवन्दनशीलं जनं अरं-अत्यर्थं आश्रयतु इत्यन्वयः / ‘आश्रयतु' इति क्रियापदम् / का कर्जी ? / रमा / ‘आश्रयतु' आलिङ्गतु / कं कर्मतापन्नम् ? / 'प्रणतं' नतं जनम् / कस्य ? | 'तव' भवतः / कथम् ? / 'अरं' अत्यर्थम् / किंविशिष्टा रमा ? / ‘परमा' प्रकृष्टा / कया ? / विशिष्ट: शोभया कृत्वा / इति पदार्थः / / अथ समासः-प्रकर्षण नतः प्रणतः, तं प्रणतम् / विशिष्टा भा-कान्तिः यस्याः सा विभा, तया विभया / परैः-योगिभिः मीयते-ज्ञायते इति परमा / आङ् मर्यादया / विधिपूर्वकं नमन्त आनमन्तः, आनमन्तश्च ते अमराश्च आनमदमराः, तैः आनमदमरैः / जिनानां कदम्बकं जिनकदम्बकं, तस्य सं० हे जिनकदम्बक ! / विगतं भयं यस्मात् स विभयः, तस्य सं० हे विभय ! / न परान् मारयतीति अपरमारः, तस्य सं० हे अपरमार ! / मारश्च मानश्च मदश्च मरश्च मारमानमदमराः, तैः मारमानमदमरैः / / इति द्वितीयवृत्तार्थः / / 10 / / दे० व्या०-आश्रयत्विति / जिनानां तीर्थंकराणां कदम्ब एव कदम्बकः-समूहः तस्यामन्त्रणम् हे जिनकदम्वक' ! / रमा-लक्ष्मीः ते-तव प्रणतं-प्रह्वीभूतं जनमिति शेषः, आश्रयतु-भजतु इत्यन्वयः / श्रिञ् सेवायाम्' धातुः / ‘आश्रयतु' इति क्रियापदम् / का की ? / रमा / “लक्ष्मीः पद्मा रमा” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 140) / कं कर्मतापन्नम् ? / जनम् / किंविशिष्टं जनम् ? | प्रणतम् / कस्य ? / तव / किंविशिष्टा रमा ? / 'विभया' विगतं भयं यस्याः सा तया / पुनः किंविशिष्टा ? / परमा-सर्वोत्कृष्टा / तयैव सर्वेषामुत्कृष्टत्वेन दर्शनात् / विभया-रोचिषा परमा-प्रकृष्टेत्यर्थो