________________ शोभनस्तुति-वृत्तिमाला स्तुत ! रहित ! जिनकम्बक ! विभयापरमार ! मारमानमदमरैः // 2 // 10 // - आर्या ज० वि०-आश्रयत्विति / हे जिनकदम्बक !-जनसमूह ! तव प्रणतं-भवतो विनतं नरं रमालक्ष्मीः अरं-शीघ्रं आश्रयतु-आ-समन्तात् श्रयतु निजास्पदत्वेनाङ्गीकरोत्विति हृदयम् इति क्रियाकारकसंटङ्कः / अत्र ‘आश्रयतु' इति क्रियापदम् / का कर्ची ? 'रमा' / कं कर्मतापन्नम् ? 'प्रणतम्' / कस्य ? 'तव' / कथंभूता रमा ? 'परमा' उत्कृष्टा / कया ? 'विभया' प्रभया दीप्त्येति यावत् / अपराणि सर्वाणि जिनस्य सम्बोधनानि / तेषां व्याख्या त्वेवम्-हे 'स्तुत' ! वन्दित ! / कैः ? 'आनमदमरैः' आनमन्तः-प्रणमन्तो ये अमराः-देवास्तैः / हे 'रहित' ! त्यक्त ! / कैः ? 'मारमानमदमरैः' मारः-कन्दर्पः, मानः-अभिमानः, मदः-जात्याद्यष्टविधः, मरो-मारी तैः / हे 'विभय' ! विगतभीते ! / न परान् प्राणिनो मारयतीति तत्सम्बो० हे 'अपरमार' ! / / अथ समासः-प्रकर्षेण नतः प्रणतः 'तत्पुरुषः' / विगतं भयं यस्मात् तत् विभयम् ‘बहुव्रीहिः' / आनमन्तश्च तेऽमराश्च आनम० 'कर्मधारयः' / तैः आनम० / परान् मारयतीति परमारम् 'तत्पुरुषः' / न परमारं अपरमारम् / तत्सम्बो० हे अपर० / मारश्च मानश्च मदश्च मरश्च मार० 'इतरेतरद्वन्द्वः' / तैर्मार० / / इति काव्यार्थः / / 10 / / (2) ___ सि० वृ०-आश्रयत्विति / हे 'जिनकदम्बक' ! जिनानां कदम्ब एव-समूह एव कदम्बकः / स्वार्थे कः / तस्य सम्वोधनं हे जिनकदम्वक ! / “कदम्बमाहुः सिद्धार्थे, नीषेऽपि निकुरम्वके” इति विश्वः / “हलिप्रियः नीपः कदम्बः” इति हैमः (का० 4, श्लो० 204) / तव प्रणतं-भवतो विनतं रमा-लक्ष्मीः अरं-शीघ्रं आ-समन्तात् आश्रयतु-भजतु / निजास्पदत्वेनाङ्कीकरोत्वित्यर्थः / ‘श्रिञ् सेवायाम्' धातोः कर्तरि ‘आशी:प्रेरणयोः' (सा० सू० 703) परस्मैपदे प्रथमपुरुषैकवचनम् / तुप् / 'अप् कर्तरि' (सा० सू० 691) इत्यप् / ‘गुणः' (सा० सू० 692) इति गुणः / अत्र ‘आश्रयतु' इति क्रियापदम् / का की ? / रमा / कं कर्मतापन्नम् ? / प्रणतम् / कस्य ? / तव / युष्मच्छब्दस्य पष्ठ्यैकवचने “तव मम ङसा” (सा० सू० 337) इति तवादेशः / कीदृशी रमा ? / परमा उत्कृष्टा / कया ? / विभया-प्रभयादीप्त्या इति यावत् / अपराणि सर्वाणि जिनस्य सम्बोधनानि / तेषां व्याख्या त्वेवम्-हे 'स्तुत' ! स्तुतिविषयीकृत ! / कैः ? / 'आनमदमरैः' आनमन्तः-प्रणमन्तो ये अमरा-देवाः ते आनमदमराः, तैः