________________ श्रीशम्भवजिनस्तुतयः 47 (4) दे० व्या०-निर्भिन्नेति / हे शम्भव ! त्वं मम शं-सुखं अरं-अत्यर्थं यथा स्यात् तथा वितर-देहीत्यन्वयः / 'तृ प्लवनतरणयोः' इति धातुः / 'वितर' इति क्रियापदम् / कः कर्ता ? / त्वम् / किं कर्मतापन्नम् ? / शम् / किंविशिष्टम् ? / 'अरममारं' न रमते इति अरमः ‘रमु क्रीडायाम्' धातुः, तेन अरममाणः मारः-कंदर्पो यत्र तत् / “मदनो मन्मथो मारः” इत्यमरः (श्लो० 49) / 'निर्भिन्नशत्रुभवभय !' इति / निः-नितरां भिन्न-भेदितं शत्रुभ्यो भवं-उत्पन्नं भयं-दरो येन स तस्योमन्त्रणम् / 'भवकान्तारतार !' इति / भवः-संसारः स एव यत कान्तारं-दुर्गवनं तत् तारयति यः स तस्यामन्त्रणम् / ‘तार !' इति / तारो-निर्मलमानसत्वात् उज्ज्वलो यः स तस्यामन्त्रणम् / 'त्रातजगत्त्रय !' इति / त्रातं-रक्षितं जगत्रयंत्रिभुवनं येन स तस्यामन्त्रणम् / ‘कान्तारतारत !' इति / कान्तायाः-स्त्रियः रतं-मैथुनसुखं तस्मिन् अरतः-अनासक्तः तस्यामन्त्रणम् / “सुरतं मोहनं रतम्” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 200) / एतानि सर्वाणि भगवतः सम्वोधनपदानि / / इति प्रथमवृत्तार्थः / / 9 / / (5) ध० टीका-निर्भिन्नेति / 'निर्भिन्नशत्रुभवभय' विदारितारातिप्रभवभीते ! / 'शं' सुखम्। 'भवकान्तारतार !' संसारारण्यतारक ! / 'तार !' उज्जवल ! / 'ममारं' मे शीघ्रम् / 'वितर' देहि / ‘त्रातजगत्त्रय !' रक्षितत्रैलोक्य ! / 'शम्भव' तृतीयजिन ! / ‘कान्तारतारत !' कान्तारतेषु योषित्सुरतेषु अरत अनासक्त ! / 'अरममारं' न रमत इत्यरमः, अरमो मारः-कामो यत्र तत् अविषयद्वारकमित्यर्थः / हे शम्भव ! अरममारं शं अरं मे वितरेति सम्बन्धः / / 9 / / अवचूरिः हे निर्भिन्नशत्रुसंभूत(उत्पन्न)भय, हे संसारकान्तारतारक, हे तार उज्जवल, अरं शीघ्रं मम शं सुखं देहि / हे रक्षितजगत्त्रय, शंभव जिन, योषित्सुरतेष्वरत कान्तामैथुनानासक्त, न रमत इत्यरमोऽरममाणोऽक्रीडन् मारः कामो यत्र / / 9 / / जिनवराणामाश्रयालक्ष्मी:आश्रयतु तव प्रणतं विभया परमा रमाऽरमानमदमरैः /