________________ 46 शोभनस्तुति-वृत्तिमाला स्फेटितं शत्रुभ्यो-वैरिभ्यो भवं-समुत्पन्नं भयं-भीतिर्येन / यद्वा निर्भिन्नाः शत्रवो-वैरिणो भवश्व-संसारो भयंभीतिर्येन / यद्वा निर्भिन्नं शत्रुरूपस्य भवस्य भयं येन, शत्रुरूपत्वं च भवस्य दुःखदायित्वेन यौक्तिकमेव। यद्वा निर्भिन्नं शत्रुभ्यो भवाच्च सकाशात् भयं येन स तथा तस्य सम्बोधनं हे निर्भिन्नशत्रुभवभय ! / “भयं भीभीतिरातङ्कः” इति हैमः (का०२, श्लो० 215) / हे 'भवकान्तारतार' ! / भवः-संसारः स एव रुद्रत्वात् / दुरवगाहत्वाच्च कान्तारं-अरण्यं तस्मात् तारयति-समुद्धरति स तथा तस्य सम्बोधनं हे भवकान्तारतार ! “महारण्ये पुण्यपथे, कान्तारे पुनपुंसकम्” इत्यमरः / / “वाक्षं च गहनं झषः / कान्तारं विपिनं कक्षः” इति हैमः / (का० 4, श्लो० 176) / हे 'तार' ! सकलकालुष्यराहित्येन निर्मलः, तस्य सम्बोधनं हे तार ! / यद्वा तारयति संसारमिति तारः, तस्य सम्बोधनं हे तार ! / “तारो मुक्तादिसंशुद्धौ, तरणे. शुद्धमौक्तिके” इति विश्वः / हे 'त्रातजगत्त्रय' ! त्रातं-रक्षितं जगतां त्रयं येन स तथा तस्य सम्बोधनं हे त्रातजगत्त्रय ! हे ‘कान्तारतारत' ! कान्तायाः-कामिन्याः रतं-सुरतं कामक्रीडेत्यर्थः, तस्मिन् अरतःअनासक्तः तस्य सम्बोधनं हे कान्तारतारत ! / “रतं सुरतगुह्ययोः” इति विश्वः / / 9 / / (3) सौ० वृ०-यः कर्मभिरजितो भवति स समग्रसुखप्रभुर्भवति / अनेन सम्बन्धन आयातस्य : तृतीयस्य श्रीशम्भवजिनस्य स्तुतिव्याख्यानं पटूक्रियते / निर्भिन्नेति / निर्भिन्न-भेदितं शत्रुभ्यो-रागादिभ्यो भवं-उत्पन्नं भयं-भीतिर्येन स निर्भिन्नशत्रुभवभयः, तस्य सं० हे 'निर्भिन्नशत्रुभवभय' ! / भवः-संसारः तदेव कान्तारं-वनं तं प्रति तरति-तारयति-पारं प्राप्नोति यः स भवकान्तारतारः, तस्य सं० हे 'भवकान्तारतार' ! / हे 'तार' ! उज्ज्वल ! निरुपाधिकस्वभावत्वात् / त्रात-रक्षितं योगक्षेमकरत्वात् जगत्त्रयं-विश्वत्रयं येन स तस्य सं०. हे 'त्रातजगत्त्रय'! | शं-सुखं भवति अस्मात इति शंभवः, तस्य सं० हे 'शंभव' !| कान्ताः-स्त्रियः तासां रतं-मैथुन-संभोगः तस्मिन अरतःअनासक्तः, तस्य सं० हे ‘कान्तारतारत' ! / मम अरं-अत्यर्थं त्वं सुखं अरमः-अरमणीयः मारःइन्द्रियजनितः कामः-पञ्चेन्द्रियविषयसुखाभिलाषः यस्मिन् तत् अरममारं एतावता अतीन्द्रियं निरुपाधिकं अक्षयं सुखं देहि इति तात्पर्यार्थः / इति पदार्थः / / ___अथ समासः-शत्रुभ्यो भवं शत्रुभवं, शत्रुभवं च तद् भयं च शत्रुभवभयं, निर्भिन्नं शत्रुभवभयं येन स निर्भिन्नशत्रुभवभयः, तस्य सं० हे निर्भिन्नशत्रुभवभय ! / भव एव कान्तारं भवकान्तारं, भवकान्तारं तारयतीति भवकान्तारतारः, तस्य सं० भवकान्तारतार ! / जगतां त्रयं जगत्त्रयं, त्रातं जगत्त्रयं येन स त्रातजगत्त्रयः, तत्सं० हे त्रातजगत्त्रय ! / कान्तानां रतानि कान्तारतानि, कान्तारतेषु अरतः कान्तारतारतः, तस्य सं० हे कान्तारतारत ! | रमते इति रमः, न रमः अरमः, अरमो मारो यस्मिन् तत् अरममारम् / अस्यां स्तुतौ आर्योपगीतिजात्याच्छन्दः / / इति प्रथमवृत्तार्थः / / 9 //