________________ श्रीशंम्भवजिनस्तुतयः सकाशात् भयं येन स तथा / तत्सम्वो० हे निर्भिन्न० / हे भवकान्तारतार' ! भवः-संसारः स एव रुद्रत्वात् दुरवगाहत्वाच्च कान्तारं-अरण्यं तस्मात् तारयति-उद्धरति स तथा / तत्सम्बोधनं हे भव० / हे 'तार' ! सकलकालुष्यराहित्येन निर्मल ! / तत्सम्बो० हे तार ! / हे 'त्रातजगत्त्रय' ! त्रातं-रक्षितं जगत्त्रयं-त्रिभुवनं येन स तथा / तत्सम्बो० हे त्रात० / हे ‘कान्तारतारत' ! कान्ता-योषितः तासु रतं-कामक्रीडा तस्मिन् अरतः-अनासक्तः / तत्सम्बो० हे कान्ता० / / अथ समासः-शत्रुभ्यो भवं शत्रुभवं 'तत्पुरुषः'। शत्रुभवं च तद् भयं च शत्रु० 'कर्मधारयः' / निर्भिन्नं शत्रुभवभयं येन ‘बहुव्रीहिः' / यद्वा शत्रवश्च भवश्च भयं च शत्रुभवभयानि ‘इतरेतरद्वन्द्वः' / निर्भिन्नानि शत्रुभवभयानि येन / यद्वा शत्रुश्चासौ भवश्च शत्रुभवः ‘कर्मधारयः' / शत्रुभवस्य भयं शत्रुभ० 'तत्पुरुषः' / निर्भिन्नं शत्रुभवभयं येन / यद्वा शत्रवश्च भवाश्च शत्रुभवाः ‘इतरेतरद्वन्द्वः' / शत्रुभवेभ्यो भयं शत्रु० तत्पुरुषः' / निर्भिन्नं शत्रुभवभयं येन स तथा / पक्षचतुष्टयेऽपि कर्मधारयः' एव / तत्सम्बो० हे निर्भि० / हे भवकान्तारतार ! भवश्चासौ कान्तारं च भव० / भव एव कान्तारं भव० इति वा, उभयथाऽपि 'कर्मधारयः' / भवकान्तारात् तारयतीति भव० 'तत्पुरुषः' / तत्सम्वो० हे भव० / जगतां त्रयं जगत्त्रयम् / त्रातं जगत्त्रयं येन सत्रात० ‘बहुव्रीहिः' / तत्सम्वो० हे त्रात० / कान्तासु रतं कान्ता० 'तत्पुरुषः' / न रतः अरतः ‘तत्पुरुषः' / कान्तारतेऽरतः कान्ता० 'तत्पुरुषः' / तत्सम्वो० हे कान्ता० / अरमो मारो यस्मिन् तत् अरममारम् ‘बहुव्रीहिः' / तत् अरममारम् / / इति काव्यार्थः / / 9 / / . (2) सि० वृ०-निर्भिन्नेति / हे शम्भव ! शं-सुखं भवत्यस्मिन् स्तुते इति शम्भवः / 'शमि धातोः संज्ञायाम्' (पा० अ० 3, पा० 2, सू० 14) इत्यच् / शं-सुखं भवत्यस्मादिति योगेन यद्यप्यायाति तथापि रूढिसहकृतेन योगेन शम्भवनाथ एव प्राप्यते / त्वं मम अरं-शीघ्रं शं-सुखं वितर-देहीत्यर्थः / विपूर्वक 'तृ प्लवनतरणयोः' इति धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम्, तृ अग्रे हिः ‘अप् [कर्तरि]' (सा० सू० 691), 'गुणः' (सा० सू० 692), 'अतः' (सा० सू० 705) इति हेर्लुक् / तथा च ('वितर' इति सिद्धम्) अत्र ‘वितर' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? | शम् / शम् इत्यव्ययम् / “शं कल्याणे सुखेऽपि च” इति विश्वः / कस्य ? / मम / अस्मच्छब्दस्य षष्ठ्येकवचने 'तव मम ङसा' (सा० सू० 337) इति ममादेशः / कथम् ? / अरम् / शं कीदृशम् ? अरममारम् / न रमत इत्यरमः, अरमः-अक्रीडन् मासे-मदनो यस्मिन् तत् तथा / “मदनो मन्मथो मारः” इत्यमरः (श्लो० 49) / “मदनो जराभीरुरनङ्गमन्मथौ” इति हैमः (का० 2, श्लो० 141) / अपराणि सर्वाणि शम्भवनाथस्य सम्बोधनानि / तेषां व्याख्या यथा-हे 'निर्भिन्नशत्रुभवभय' ! निर्भिन्न