________________ श्रीअभिनन्दनजिनस्तुतयः नः / यत्तदोरभिसम्बन्धात् तं कम् ? / यो भवः असुमतां-प्राणिनां मृतिजात्यहिताय-मृतिः-मरणं जातिःजन्म मृतिश्च जातिश्च मृतिजाती ‘इतरेतरद्वन्द्वः', तद्रूपं यत् अहितं-अपथ्यं तस्मै भवतीति क्रियाध्याहारः / “कर्तृकर्मक्रियादीनामवकाशो न चेद् यदि / अध्याहारस्तदा कार्यो, मुख्यार्थप्रतिपत्तये // " इति प्रायः / चतुर्थी चेयं तादर्थ्य ज्ञेया / 'भू सत्तायाम्' धातुः / अकर्मकोऽयम् / अग्रे परस्मैपदे प्रथमपुरुषैकवचनं तिप् / ‘अप् कर्तरि' (सा० सू० 691) इत्यप् / 'गुणः' (सा० सू० 692) इति गुणः / अवादेशः / 'स्वरहीनं०' (सा० सू०३६) / तथा च भवतीति सिद्धम् / अत्र 'भवति' इति क्रियापदम् / कः कर्ता ? / यः / कस्मै ? / मृतिजात्यहिताय / केषाम् ? असुमताम् / नोशब्द: अस्मच्छब्दस्य षष्ठीबहुवचनान्तत्वेन व्याख्यातः स निषेधार्थत्वेनापि व्याख्येयः / तथाहि-यो भवः असुमतां मृतिजात्यहिताय नो भवति प्राणिसम्बन्धिन्यौ ये मृतिजाती तयोः अहिताय न भवति / अवशिष्टं त्वेकं जिनवरागमसम्बोधनम् / तस्य चायमर्थ:-हे 'निर्मथितोद्धताजिनवरागमनोभवमाय' ! उद्धतः-उद्दामः आजिः-संग्रामः नवः-नूतनः रागः-द्रव्यादावभिलाषः मनोभवः-कन्दर्पः माया-बन्ध(वञ्च?)निका उद्धताजिश्च नवरागश्च मनोभवश्च माया च उद्धताजिनवरागमनोभवमायाः ‘इतरेतरद्वन्द्वः' / निर्मथिताः उद्धताजिनवरागमनोभवमायाः येन स निर्मथितोद्धताजिनवरागमनोभवमायः, तस्य सम्बोधनम् / अथवा उद्धताजौ नवरागो यस्य तत् उद्धताजिनवरागं, उद्धताजिनवरागं च तन्मनश्च उद्धताजिनवरागमनः, उद्धताज़िनवरागमनसि भवा उद्धताजिनवरागमनोभवा, उद्धताजिनवरागमनोभवा चासौ माया चेति 'कर्मधारयः', ततो निर्मथिता उद्धताजिनवरागमनोभवमाया येन स तथा / “आजिः स्त्री समभूमौ च सङ्ग्रामे” इति मेदिनिः / / 15 / / सौ० वृ०-असुमतामिति / हे जिनवरागम ! - तीर्थकरप्रवचन ! नः-अस्माकं आयतं-विस्तीर्णं भवं-संसारं (त्वं) प्रलघुतां-प्रकर्षण लघुतां-अल्पीयस्त्वं नय इत्यन्वयः / 'नय' इति क्रियापदम् / कः कर्ता ? / त्वम् / 'नय' प्रापय / कं कर्मतापन्नम् ? | ‘भवं' संसारम् / कां कर्मतापन्नाम् ? / 'प्रलघुतां' प्रकर्षेण ह्रस्वत्वम् / अत्र ‘णीञ् प्रापणे' इत्यस्य धातोर्द्विकर्मकत्वम् / केषाम् ? / 'नः' अस्माकम् / किविंशिष्टं भवम् ? / 'आयतं' विस्तीर्णम् / पुनः किंविशिष्टम् ? / तम् / तं कम् ? / यो भवः-संसारः असुमतां प्राणिनां मृतिः-मरणं जातिः-जन्म ते एव अहितं-अपथ्यं तस्मै मृतिजात्यहिताय अस्तीत्यन्वयः / 'अस्ति' इति क्रियापदम् / कः कर्ता ? / यो भवः / ‘अस्ति' विद्यते / किमर्थं-कस्मै ? / 'मृतिजात्यहिताय' मरणजन्माकुशलाय | केषाम् ? / 'असुमता' प्राणिनाम् / पुनः किंविशिष्टं भवम् ? / निर्मथिता-उन्मूलिता उद्धता आजिः-संग्रामः नवरागो-द्रव्याभिलाषो मनोभवः-कामः मायता-वञ्चनात्मिका यस्मिन् स