________________ 70 शोभनस्तुति-वृत्तिमाला 'निर्मथितोद्धताजिनवरागमनोभवमायतम्' / यद्वा निर्मथितः उद्धत आजौ-संग्रामे नवो-नूतनो यो रागः एतादृशं यन्मनः-चित्तं तस्माद् भवा-उत्पन्ना या मायता-वञ्चनिका यस्मिन् तद् ‘निर्मथितोद्धताजिनवरागमनोभवमायतम् / पक्षे भवः-शिवः तस्य मायता-वञ्चनिका तस्याः प्रलघुतां-ह्रस्वत्वं त्वं नय / लोकोक्त्या ईश्वरस्य जगत्कर्तृत्वं प्रतीयते / “शिवेन निर्मिता माया, मायया निर्मितं जगत्” इति तद्विदः / तत्पक्षे इदमपि वक्ष्यमाणं युक्तम्-निर्मथितं उद्धतं-उत्पाटितं अजिनं-चर्म तद्वद् वरः अगः-पर्वतः कैलासः तादृशं मनो यस्य स तादृशो यो भवः-शिवः तस्य माया-वञ्चना तस्या लघुतां नय इत्यपि छायार्थेन आगतम् / यो भवः-शिवः प्राणिनां जन्ममृत्यहितहेतुः इति माया अस्ति लोके / हे जिनवरागम ! नः भवं प्रलघुतां प्रापय / इति पदार्थः / / ___अथ समासः-असवः-प्राणा विद्यन्ते येषां ते असुमन्तः, तेषां असुमताम् / मृतिश्च जातिश्च मृतिजाती, मृतिजाती एव अहितं मृतिजात्यहितं, तस्मै मृतिजात्यहिताय / जिनवराणां आगमः जिनवरागमः, तस्य सं० हे जिनवरागम ! / लघो वो लघुता, प्रकर्षण लघुता प्रलघुता, तां प्रलघुताम् / आजिश्च नवरागश्च मनोभवश्च मायता च आजिनवरागमनोभवमायताः, निर्मथिता उद्धता आजिनवरागमनोभवमायता यस्मिन् तद् निर्मथितोद्धताजिनवरागमनोभवमायतम् / यद्वा निर्मथितः-उन्मूलितः उद्धतः आजौ-संग्रामे नवरागो-द्रव्याभिलाषः मनोभवः-कामः मायता-कपटता निर्मथिता-उन्मूलिता उत्कटतानवरागमनोभवमायता यस्मिन् तद् निर्मथितोद्धताजिनवरागमनोभवमायतम् / / इति तृतीयवृत्तार्थः / / 15 / / दे० व्या०-असुमतामिति / हे 'जिनवरागम !' जिनवराणां आगमः जिनवरागमः तस्यामन्त्रणम्, त्वं नः-अस्माकं तं भवं-संसारं प्रलघुतां-प्रकर्षेण ह्रस्वतां नय-प्रापयेत्यन्वयः / ‘णीञ् प्रापणे' धातुः / 'नय' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? / भवम् / आयतं-प्रबलम् / यत्तदोर्नित्याभिसम्बन्धात् यो भवः असुमतां-प्राणिनां मृतिजात्यहिताय स्यात् इत्यध्याहारः / ‘स्यात्' इति क्रियापदम् / कः कर्ता ? / भवः / कस्मै ? 'मृतिजात्यहिताय' मृतिः-मरणं जातिः-जननम् अनयोर्द्वन्द्वः तयोः अहितं अपथ्यम् (तस्मै) / केषाम् ? / असुमताम् / यथा कुपथ्यकरणाद् रोगिणां रोगवृद्धिः तथा भवकारणात् प्राणिनां मरणजननवृद्धिरिति भावः / 'निर्मथितोद्धताजिनवरागमनोभवमाय' ! इति / आजिः-संग्रामः नवरागः-नूतनोऽभिलाषः मनोभवः-कामः माया-कैतवम् एतेषां पूर्वं 'द्वन्द्वः', ततः उद्धतपदेन 'कर्मधारयः', ततो निर्मथिता-निर्दलिता उद्धता आजिनवरागमनोभवमाया येन इति ‘बहुव्रीहिः' / आगमसम्बोधनमेतत् / निर्मथितोद्धताजौ-उत्कटसंग्रामे नवरागो यस्य एतादृशं यन्मनस्तत्र भवा मायानिकृतिर्येनेत्यर्थो वा / प्रतिपदं उद्धतपदस्य सम्वन्धः इत्यपि कश्चित् / / इति तृतीयवृत्तार्थः / / 15 / /