________________ श्रीअभिनन्दनजिनस्तुतयः 71 ध० टीका-असुमतामिति / ‘असुमतां' प्राणिनाम् / ‘मृतिजात्यहिताय' मृतिजाती-मरणजन्मनी ते एव अहितं-अपथ्यं तस्मै यः तादर्थ्यचतुर्थीयम् / 'जिनवरागम !' अर्हत्प्रवचनम् / 'नः' अस्माकम् / ‘भवं' संसारम् / 'आयतं' दीर्घम् / 'प्रलघुतां नयं' ह्रसीयस्त्वं प्रापय / 'निर्मथितोद्धताजिनवरागमनोभवमाय !' 'तं' उद्धताजिः-उद्दामसङ्ग्रामः नवरागो-नूतनो द्रव्यादावभिलाषः मनोभवः-कामः माया-वञ्चनिका ते निर्मथिता येन, अथवा उद्धताजौ नवरागं नवो रागो यस्य तन्मनस्तत्र भवा या माया सा निर्मथिता येन, यदिवा उद्धताजिनः-उत्क्षिप्तचर्मा, वरागमनाः-वरागः-प्रधानशैलो अर्थात् कैलासः तत्र मनो यस्य, माया संसारलक्षणा, निर्मथिता उद्धता-जिनस्य वरागमनसो ‘भव'स्य माया येन तस्यामंत्रणम् / इदमपि व्याख्यानं लोकयुक्त्यनुसारेण घटत एव / हे जिनवरागम ! यो मृतिजात्यहिताय असुमतां तं भवं नः प्रलघुतां नयेति सम्बन्धः / अथवा नो इति प्रतिषेधे / मृतिजात्योरसुमतां सम्वन्धिन्योरहिताय यो नो भवति, किं तर्हि तदुपचयहेतुत्वात् हिताय, तं भवं प्रलघुतां नयेति व्याख्यायते / / 15 / / अवचूरिः ___ यो भवोऽसुमतां मृतिजाती मरणजन्मनी ते एवाहितमपथ्यं तस्मै मरणजन्माहिताय स्यात् / हे जिनेन्द्रसिद्धान्त ! नोऽस्माकं तं भवं संसारमायतं प्रबलं लघीयस्त्वं प्रापय / आजिः सङ्ग्रामः, नवरागो द्रव्यादौ नूतनोऽभिलाषः / यद्वा उद्धताजौ नवरागो यस्य तच्च तन्मनस्तत्र भवा या माया सा निराकृता येन / यद्वा मुक्तसङ्ग्रामनूतनरागकाममाय ! / / 15 / / श्रीरोहिण्यै नमःविशिखशङ्खजुषा धनुषाऽस्तसत् सुरभिया ततनुन्नमहारिणा / परिगतां विशदामिह रोहिणी सुरभियाततनुं नम हारिणा // 4 // 16 // .. -द्वत०