________________ 72 शोभनस्तुति-वृत्तिमाला ज० वि०-विशिखशवेति / भो भव्य ! प्राणिन् ! त्वं इह-अस्मिन् जगति रोहिणीं-रोहिण्याख्या देवी नम-प्रणिपातविषयीकुरु / अत्र ‘नम' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कां कर्मतापन्नाम् ? 'रोहिणीम्' / कुत्र ? ‘इह' / कथंभूताम् ? 'परिगतां' परिवारिताम्, समन्वितामिति यावत् / केन ? 'धनुषा' कार्मुकेण / कथंभूतेन धनुषा ? 'विशिखशङ्खजुषा' विशिखो-बाणः शङ्ख:-कम्बुः तौ जोषते इति विशिखशङ्खजुट् तेन विशिखशङ्खजुषा / तथा तेन पुनः कथंभूतेन ? 'अस्तसत्सुरभिया' अस्ता-निरस्ता सतां-उत्कृष्टानां सुराणां-देवानां भीः-भयं येन तत् तथा तेन / पुनः कथं० ? 'ततनुन्नमहारिणा' तताःप्रसृताः नुन्नाः-प्रेरिताः-निर्जिता महान्तोऽरयो-वैरिणो येन तत् तथा तेन / पुनः कथं० ? 'हारिणा' मनोहरेण / रोहिणी पुनः कथंभूताम् ? 'विशदां' शुक्लवर्णाम् / पुनः कथं० ? 'सुरभियाततर्नु' सुरभिःधेनुः तस्यां याता-प्राप्ता-स्थिता तनुः-शरीरं यस्याः सा तथा ताम्, धेनुसमधिरूढामित्यर्थः / / अथ समासः-विशिखश्च शङ्खश्च विशिखशङ्खौ ‘इतरेतरद्वन्द्वः' / विशिखशङ्खौ जोषते इति विशिखशङ्खजुट् 'तत्पुरुषः' / तेन विशि० / सन्तश्च ते सुराश्च सत्सुराः 'कर्मधारयः' / सत्सुराणां भीः सत्सुरभीः 'तत्पुरुषः' / अस्ता सत्सुरभीः येन तत् अस्तसत्० 'बहुव्रीहिः' / तेन अस्तसत् / तताश्च ते नुन्नाश्च ततनुन्नाः ‘कर्मधारयः' / महान्तश्च तेऽरयश्च महारयः ‘कर्मधारयः' / नतनुन्ना महारयो येन तत् ततनुन्न० 'बहुव्रीहिः' / तेन ततनुन्नमहारिणा | सुरभौ याता सुरभियाता 'तत्पुरुषः' / सुरभियाता तनुर्यस्याः सा सुरभि० ‘बहुव्रीहिः' / तां सुरभि० / / इति काव्यार्थः / / 16 / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीअभिनन्दनजिनस्तुतिवृत्तिः // 4 / 4 / 16 // सि० वृ०-विशिखशवेति / भो भव्य प्राणिन् ! त्वं इह-अस्मिञ्जगति रोहिणीं-रोहिणीनाम्नी देवीं नम-प्रणामविषयीकुरुष्वेत्यर्थः / ‘णम प्रवीभावे' धातोः 'आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / णम् अग्रे हिः / ‘आदे: ष्णः स्नः' (सा० सू० 748) इति णस्य नः / 'अप्' (अतः) हेर्लुक् / तथा च 'नम' इति सिद्धम् / अत्र ‘नम' इति क्रियापदम् / कः कर्ता ? / त्वम् / कां कर्मतापन्नाम् ? / ‘रोहिणीं' रोहयत्यवश्यं रोहिणी, तां रोहिणीम् / कुत्र ? / इह / कथंभूतां रोहिणीम् ? / परिगतां-परिवारितां समन्वितामिति यावत् / केन ? / धनुषा-चापेन / 'धनार्तिचक्षिपवपितपिजनियजिभ्य उस् प्रत्ययो भवति' (सा० सू० 1397) / कीदृशेन धनुषा ? / 'विशिखशङ्खजुषा' विशिखः-शरः शङ्खः-कम्बुः विशिखश्च शङ्खश्च विशिखशौ ‘इतरेतरद्वन्द्वः', विशिखशी जोषते इति विशिखशङ्खजुट, तेन विशिखशङ्खजुषा / 'जुषी प्रीतिसेवनयोः' / 'अस्तसत्सुरभिया' अस्ता-निरस्ता