________________ श्रीअभिनन्दनजिनस्तुतयः सत्सुराणां-प्रकृष्टदेवानां भीः-भयं येन तत् तथा / तेन भीशब्दोऽत्र स्त्रियां संपदादिक्विबन्तः / क्विबन्ता धातुत्वं नो जहत' इति ‘य्वोर्धातोः [इयुवौ स्वरे]' (सा० सू० 180) इति इयङ् / पुनः कथंभूतेन ? / 'ततनुन्नमहारिणा' तताः-प्रसृताः ते च ते नुन्नाः-प्रेरिताः-निर्जिताः महान्तः अरयो-वैरिणो येन तत् तथा तेन / पुनः कथंभूतेन ? / हारिणा-मनोहरेण / पुनः कथंभूतां रोहिणीम् ? / विशदां-निर्मलां, शरीरमनसोर्निर्मलत्वादिति भावः / पुनः कथंभूताम् ? / 'सुरभियाततर्नु' सुरभिः-धेनुः तस्यां याता-प्राप्ता तनुः-शरीरं यस्याः सा तथा तां, धेनुसमधिरूढामित्यर्थः / 'सुरभिर्गवि च स्त्रियां' इत्यमरः (श्लो० 2608) / द्रुतविलम्बितं छन्दः / ‘द्रुतविलम्बितमाह नभौ भरौ' इति तल्लक्षणम् / / 16 / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीअभिनन्दनस्तुतिवृत्तिः // 4 / 4 / 16 // सौ० वृ०-विशिखशवेति / रोहिणीं देवीं इह-संसारे त्वं नम | 'नम' इति क्रियापदम् / कः कर्ता ? | त्वम् / ‘नम' प्रणम / कां कर्मतापन्नाम् ? / 'रोहिणीं' रोहिणीनाम्नी देवीम् / किंविशिष्टां रोहिणीम ? | 'परिगता' परिमण्डितां-व्याप्ताम् / केन ? / 'धनुषा' कार्मुकेण / किंविशिष्टेन धनुषा ? / विशिखः-शरः शङ्कः-कम्बुः ताभ्यां जुट्-सहितं तेन 'विशिखशङ्खजुषा' / पुनः किंविशिष्टेन धनुषा ? / अस्ता-ध्वस्तानिराकृता सत्सुराणां-शोभनदेवानां भीः-भयं येन सः अस्तसत्सुरभीः तेन ‘अस्तसत्सुरभिया' / पुनः किं० धनुषा ? / तता-विस्तृता नुन्ना-प्रेरिता महान्तो रयाः-वेगाः तथा अरयः-शत्रवो वा येन तत् ततनुन्नमहारि, तेन 'ततनुन्नमहारिणा' / पुनः किंविशिष्टां रोहिणीम् ? / 'विशदां निर्मलाम्' गौरवर्णामित्यर्थः / पुनः किं० रोहिणीम् ? / सुरभिणा-गवा याता-उत्पाटिता तनुः-शरीरं यस्याः सा सुरभियाततनुः, तां 'सुरभियाततनुम्' / पुनः किंविशिष्टेन धनुषा ? / 'हारिणा' मनोहरेण-मनोज्ञेन / इति पदार्थः / / अथ समासः-विशिखश्च शङ्खश्च विशिखशङ्खौ, विशिखशङ्खौ जुषति-योजयतीति विशिखशङ्खजुट्, तेन विशिखशङ्खजुषा / सन्तश्च ते सुराश्च सत्सुराः, सत्सुराणां भीः सत्सुरभीः, अस्ता सत्सुरभीर्येन सः अस्तसत्सुरभीः, तेन अस्तसत्सुरभिया / महान्तश्च ते रयाश्च महारयाः, तता-नुन्ना महारया येन स ततनुन्नमहारिः, तेन ततनुन्नमहारिणा / सुरभिणा याता तनुः यस्याः सा सुरभियाततनुः, तां सुरभियाततनुम् / हरति चित्तं इति हारि, तेन हारिणा / / इति चतुर्थवृत्तार्थः / / 16 / / - अभिनन्दनदेवस्य, स्तुतेरर्थो लिवीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // 1 // // इति अभिनन्दनजिनस्तुतिवृत्तिः // 4 / 4 / 16 // 1. 'क्विबन्तं धातुत्वं न जहाति' इति प्रतिभाति /