________________ 74 शोभनस्तुति-वृत्तिमाला दे० व्या०-विशिखशवेति / इह-अस्मिन् लोके रोहिणीं देवीं त्वं नम-नमस्कुरु इत्यन्वयः / ‘णम प्रवीभावे' धातुः / 'नम' इति क्रियापदम् / कः कर्ता ? / त्वम् / कां कर्मतापन्नाम् ? | रोहिणीम् / किंविशिष्टाम् ? / विशदाम्-निर्मलाम् शरीरेण मनसा वा / पुनः किंविशिष्टाम् ? / 'सुरभियाततनुम्' सुरभौ-गवि याता-प्राप्ता तनुः-शरीरं यस्याः सा ताम् / “माहा सुरभिरर्जुनी” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 33) गवि आरूढामिति निष्कर्षः / अत्र 'वोर्गुणात्' इति पाक्षिक ईभावः / पुनः किंविशिष्टाम् ? | परिगतां-सहिताम् / केन ? | धनुषा-चापेन / किंविशिष्टेन धनुषा ? | 'विशिखशङ्खजुषा' विशिखो-बाणः शङ्खः प्रसिद्धः अनयोः 'द्वन्द्वः' ताभ्यां जुषतीति. तेन विशिखशवजुषा / “वाणे प्रकर्षविशिखौ” इत्यमरः / पुनः किंविशिष्टेन ? | ‘अस्तसत्सुरभिया' अस्ताध्वस्ता सत्सुराणांप्रकृष्टदेवानां भीः-भयं येन तत् तेन / पुनः किंविशिष्टेन ? | 'ततनुन्नमहारिणा' तताःप्रसृताः नुन्नाः-प्रेरिताः महान्तः-प्रकृष्टा अरयः-शत्रवो येन तत् तथा तेन / पुनः किंविशिष्टेन ? / हारिणामनोहरेण / इति चतुर्थवृत्तार्थः / द्रुतविलम्वितं छन्दः / ‘द्रुतविलम्बितमाह नभौ भरौ' इति तल्लक्षणम् / / 16 / / 4 / 4 / 16 // ध० टीका-विशिखशंखेति / 'विशिखशङ्खजुषा' शरकम्बुभाजा / 'धनुषा' कार्मुकेण / 'अस्तसत्सुरभिया' अस्ता सत्सुराणां उत्कृष्टामराणां भीर्येन तेन / 'ततनुन्नमहारिणा' तता नुन्नाः-प्रेरिताः महान्त अरयो येन तेन / 'परिगतां' परिवीताम् / 'विशदां' शुक्लवर्णाम् / ‘इह' अत्र जगति / 'रोहिणीं' रोहिण्यभिधानाम् / 'सुरभियाततर्नु' सुरभिस्थितदेहाम् / ‘नम' प्रणिपत / 'हारिणा' रुचिरेण / धनुषा परिगतां रोहिणी नमेति सम्बन्धः / / 16 / / 4 / 4 / 16 // . अवचूरिः धनुषा मण्डितहस्तां रोहिणीं देवीं नम / धनुषा किंभूतेन / शरशङ्कसहितेन / अस्ता ध्वस्ता सत्सुराणां प्रकृष्टदेवानां भीर्येन / तताः प्रसृता नुन्नाः प्रेरिता महान्तोऽरयो येन / परिगतां परिवारिताम् / विशदां शुक्लवर्णाम् / इहात्र जगति / रोहिणी रोहिण्यभिधानाम् / सुरभिर्गास्तत्र याता प्राप्ता तनुर्यस्यास्तां देवी नम प्रणिपत / धनुषा किंभूतेन / हारिणा मनोहरेण / / 16 / / 4 / 4 / 16 //