________________ श्रीसुमतिजिनस्तुतयः 75 ... 5 श्रीसुमतिजिनस्तुतयः अथ श्रीसुमतिनाथस्य स्तुतिः मदमदनरहित ! नरहित !. . सुमते ! सुमतेन ! कनकतारेतारे ! / दमदमपालय ! पालय दरादरातिक्षतिक्षपातः पातः ! // 1 // 17 // - आर्यागीतिः (1) ज० वि०-मदमदनेति / हे सुमते !-सुमतितीर्थपते ! त्वं दमदं-प्रशमदायिनं, अर्थात् श्रमणश्रमणीनां बहुत्वेऽपि जातिमपेक्ष्यैकवचनप्रयोगः, दरात्-त्रासात् पालय-रक्षेतिक्रियाकारकसम्बन्धः / अत्र ‘पालय' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कं कर्मतापन्नम् ? -- दमदम्' / कस्मात् ? ‘दरात्' / अपराणि सर्वाण्यपि सुमतितीर्थपतेः सम्बोधनानि / तेषां व्याख्या त्वेवम्-हे 'मदमदनरहित !' / मद:जात्यादिभेदादष्टविधः मदनः कन्दर्पः ताभ्यां रहितः-त्यक्तः तत्सम्बो० हे मद० / हे 'नरहित !' नरेभ्यो हितो-हितकारी तत्सम्बो० हे नर० / हे ‘सुमतेन !' सुमतं-शोभनागमः तस्य इनः-प्रभुः तस्य स्वातन्त्र्येण प्रणेतृत्वात् तत्सम्बो० हे सुमतेन ! / हे 'कनकतार !' कनकं-सुवर्णं तद्वत् तार !-उज्ज्वल ! / यद्वा सुमतेन कनकतार इत्येकमेव सम्बोधनम् / तथा चैवं व्याख्यानम्-सुमतेन करणभूतेन कृत्वा कनकतार ! / हे '