________________ 76 शोभनस्तुति-वृत्तिमाला इतारे !' इताः-गताः अरयो-वैरिणो यस्मात् स तथा तत्सम्बो० हे इतारे ! / हे 'अपालय !' अपगत आलयो यस्मात् स तथा तत्सम्बो० हे अपालय ! / हे पातः' पातीति पाता-रक्षकः तत्सम्बो० हे पातः ! / कस्मात् ? 'अरातिक्षतिक्षपातः' अरातयो-वैरिणः तेभ्यः समुत्पन्ना या क्षतिः-उपमर्दः सैव रौद्रात्मकत्वात् क्षपारात्रिस्तस्याः सकाशात् / / अथ समासः-मदश्च मदनश्च मदमदनौ ‘इतरेतरद्वन्द्वः' / मदमदनाभ्यां रहितः मद० 'तत्पुरुषः' / तत्सम्बो० हे मद० / नरेभ्यो हितो नरहितः 'तत्पुरुषः' / तत्सम्बो० हे नरहित ! / शोभना मतिर्यस्य स सुमतिः ‘बहुव्रीहिः' / तत्सम्बो० हे सुमते ! / शोभनं मतं सुमतं 'तत्पुरुषः' / सुमतस्य इनः सुमतेनः 'तत्पुरुषः' / तत्सम्बो० हे सुमतेन ! / यद्वा शोभनं मतं सुमतं 'तत्पुरुषः' / तेन सुमतेन / कनकवत् तारः कनकतारः 'तत्पुरुषः' / तत्सम्बोधनं हे कनक० / इता अरयो यस्मात् स इतारिः ‘बहुव्रीहिः' / तत्सम्बोधनं हे इतारे ! / दमं ददातीति दमदः ‘तत्पुरुषः' / तं दमदम् / अपगतः आलयो यस्मात् सोऽपालयः ‘बहुव्रीहिः' | तत्सम्बो० हे अपालय ! / अरातिभ्यः क्षतिः अरातिक्षतिः 'तत्पुरुषः' / अरातिक्षतिरेव क्षपा अराति० 'कर्मधारयः' / तस्याः अराति० / / इति काव्यार्थः / / 17 / / / सि० वृ०-मदमदनेति / शोभना मतिरस्येति सुमतिः, तस्य सम्बोधनं हे सुमते !-सुमतितीर्थपते ! त्वं दमदं-प्रशमदायिनं अर्थान्मुनिमेव श्रमणम्, बहुत्वेऽपि जातिमपेक्ष्यैकवचनप्रयोगः, “दमस्तु दमथे दण्डे, कर्दमे दमनेऽपि च” इति विश्वः, दरात्-त्रासात् पालय-रक्षेत्यर्थः / ‘पाल पालने' धातोः ‘आशी:प्रेरणयोः' (सा० सू०७०३) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / 'चुरादेः' (सा० सू०१०३१) ञिः, ‘अप्०' (सा० सू० 691), 'गुणः' (सा० सू० 692) “ए अय्' (सा० सू० 41), अंतः' (सा० सू० 705) इति हेर्लुक / तथा च ‘पालय' इति सिद्धम् / अत्र ‘पालय' इति क्रियापदम् / कः कर्ता ? / त्वम् / किं कर्मतापन्नम् ? / दमदम् / कस्मात् ? / दरात् अर्थात् संसारभयात् / “आतङ्कस्तु दरत्रासौ, भीतिभॊः साध्वसं भयम्” इति वैजयन्ती / अन्यानि सर्वाण्यपि सुमतिजिनस्य सम्बोधनानि / तेषां व्याख्या त्वेवम्-हे 'मदमदनरहित !' मद:-जात्यादिभेदादष्टविधः, मदनः-कन्दर्पः, मदश्च मदनश्च मदमदनौ ‘इतरेतरद्वन्द्वः' ! ताभ्यां रहितो मदमदनरहितः, तस्य सम्बोधनं हे मदमदनरहित ! / हे 'नरहित !' नरेभ्यो हितः-हितकारी, तस्य सम्बोधनं हे नरहित ! / हे 'सुमतेन !' सुमतं-शोभनं मतं, तस्य इनः-प्रभुः स्वातन्त्र्येण प्रणेतृत्वात्, तस्य सम्बोधनं हे सुमतेन ! / “इनः सूर्य नृपे पत्यौ” इति विश्वः / कनकं-सुवर्णं तद्वत् तारः-उज्ज्वलः, तस्य सम्बोधनं हे कनकतार ! / इता-गता अरयो-वैरिणो यस्मात् स तथा, तस्य सम्बोधनं हे इतारे ! / अपगतः आलयो-गृहं यस्मात् सः अपालयः, तस्य सम्बोधनं हे 'अपालय !' / पातीति पाता-रक्षकः, तस्य सं० हे 'पातः !' / कस्मात् ? / 'अरातिक्षतिक्षपातः' अरातयो-वैरिणः तेभ्यः समुत्पन्ना या क्षतिः