________________ श्रीसुमतिजिनस्तुतयः उपमर्दः सैव रौद्रात्मकत्वात् क्षपा रात्रिः तस्याः सकाशात् / सार्वविभक्तिकस्तस् / “निशा निशीथिनी रात्रिः, शर्वरी क्षणदा क्षपा” इति हैमः (का० 2, श्लो० 55) / / 17 / / सौ० वृ०-यः अभिनन्दनो भवति स सुमतिरेव भवति / अनेन सम्बन्धेनायातस्य श्रीसुमतिनाथपञ्चमजिनस्य स्तुतिव्याख्यानं लिख्यते / मदमदनेति / मदो-मानःजात्याद्यष्टविधो वा, मदनः-कामः ताभ्यां रहितो-वियुक्तः तस्य सं० हे 'मदमदनरहित !' / नरा-मनुष्याः तेषां हितः-सुखकृत् तस्य सं० हे 'नरहित !' / सु-शोभना मतिः यस्य स सुमतिः, तस्य सं० हे 'सुमते !' / भगवति गर्भस्थे सति एकसुतसपनीद्वयस्य कलहभञ्जनात् / सुमतं सम्यग् दर्शनं स्याद्वादमयं तस्य इनः-स्वामी सुमतेनः, तस्य सं० ‘सुमतेन !' / कनकं-स्वर्णं तद्वत् तारः-उज्जवलः-गौरः कनकतारः, तस्य सं० हे 'कनकतार !' / इताः-क्षयं गताः अरयो यस्य स इतारिः, तस्य सं० हे इतारे !' / अपगतः-उज्झितः आलयो-गृहं येन सः अपालयः तस्य सं० हे 'अपालय !' | त्वं दमदं-प्रशमदं पुरुषं दरात्बाह्याभ्यन्तरभयात् सुमतेन-करणभूतेन पालय इत्यन्वयः / ‘पालय' इति क्रियापदम् / कः कर्ता ? | त्वम् / 'पालय' रक्ष / कं कर्मतापन्नम् ? | दमदम् / कस्मात् ? / दरात / हे 'पातः !' हे रक्षक ! / कस्मात् ? / अरातिः-शत्रुः तदेव क्षतिः-क्लेशानर्थदायित्वात् प्रहरणं सैव क्षपा-रात्रिः तस्याः अरातिक्षतिक्षपातः सर्वविघ्नोपशामकः / इति पदार्थः / / अथ समासः-मदश्च मदनश्च मदमदनौ, मदमदनाभ्यां रहितः मदमदनरहितः, तस्य सं० हे मदमदनरहित ! / नराणां नरेभ्यो वा हितः नरहितः, तस्य सं० हे नरहित ! | सु-शोभना मतिर्यस्य स सुमतिः, तस्य सं० हे सुमते ! / सुष्ठु मतं सुमतं, तस्य इनः सुमतेनः, तस्य सं० हे सुमतेन ! / कनकवत् तारः कनकतारः, तस्य सं० हे कनकतार ! / इता-गता अरयो यस्मात् यस्य वा इतारिः, तस्य सं० हे इतारे ! / दम-इन्द्रियनोइन्द्रियविषयप्रशमरूपं ददातीति दमदः, तं दमदम् / अपगतः आलयो यस्मात् यस्य वा अपालयः, तस्य सं० हे अपालय ! / अरातय एव क्षतिः अरातिक्षतिः, अरातिक्षतिरेव क्षपा अरातिक्षतिक्षपा, तस्याः अरातिक्षतिक्षपातः, पातीति पाता / तस्य सं० हे पातः ! / अस्यां स्तुतौ आर्याछन्दः / सर्वेष्वपि पादेषु यमकालंकारः / / इति प्रथमवृत्तार्थः / / 17 / / दे० व्या०-मदमदनेति / हे सुमते ! - सुमतिनाथ ! त्वं दमदं-प्रशमदम्, जनमितिशेषः, दरात्इहलोकादिभेदभिन्नसाध्वसात् पालय-रक्षेत्यन्वयः / अत्र ‘पालय' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? | दमदं जनम् / कस्मात् ? / दरात् / 'मदमदनरहित' ! इति / मदः पूर्वोक्तः मदनः