________________ 78 शोभनस्तुति-वृत्तिमाला कामः अनयोः 'द्वन्द्वः' ताभ्यां रहितो-विमुक्तः तस्यामन्त्रणम् हे मदमदनरहित ! / 'नरहित !' इति / नराणां-मनुष्याणां हितो-हितकारकः तस्यामन्त्रणम् हे नरहित ! / 'सुमतेन !' इति / सुष्ठु-शोभनं मतंप्रवचनं येषां ते सुमताः-मुनयः तेषाम् / यद्वा सुष्ठु-शोभनं यन्मतं-राद्धान्तः तस्य इनः-प्रभुः तस्यामन्त्रणम् / यद्वा सुमतेन करणभूतेन / ‘कनकतार !' इति / कनक-सुवर्णं तद्वत् तारः-उज्जवलः तस्यामन्त्रणम् / ‘इतारे !' इति / इता-गता अरयः-शत्रवः यस्य स तस्यामन्त्रणम् / ‘अपालय !' इति / अपगतः आलयो-गृहं यस्य स तस्यामन्त्रणम् / ‘पातः !' / इति / पाति-रक्षति इति पाता तस्यामन्त्रणम् / कस्मात् ? / 'अराति-क्षतिक्षपातः' अरातिभ्यः-शत्रुभ्यः क्षतिः-उपमर्द: सैव रौद्रात्मकत्वात् क्षपा-रात्रिः तस्याः सकाशात् / “शर्वरी क्षणदा क्षपा” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 55) / एतानि सर्वाणि भगवतः सम्बोधनपदानि / / इति प्रथमवृत्तार्थः / / 17 / / ध० टीका-मदमदनेति / 'मदमदनरहित !' मदः-अहङ्कारः मदनः-कामः ताभ्यां रहितः तस्य सम्वोधनम् / 'नरहित !' नरेभ्यो हित ! / 'सुमते' सुमत्यभिधान ! / ‘सुमतेन’ सुमतस्य सदागमेन स्वामिन् अथवा सुमतेन करणभूतेन / 'कनकतार' तपनीयोज्ज्वल ! / 'इतारे' गतशत्रो ! / 'दमदं' प्रशमदम् / ‘अपालय' अपगतनिलय ! / 'पालय' रक्ष / 'दरात्' त्रासात् / ‘अरातिक्षतिक्षपातः' अरातिक्षतिः-शत्रुभ्य उपमर्द: सैव रौद्रात्मकत्वात् क्षपा-रात्रिः तस्याः सकाशात् / ‘पातः !' त्रायक ! | हे सुमते ! दराद् दमदं पालयेति सम्बन्धः / / 17 / / (6) अवचूरिः हे मदकामाभ्यां त्यक्त ! हे नरेभ्यो हित ! हे सुमतिजिन ! दमदं प्रशमदं नरं दरादिहलोकादिभेदभिन्नसाध्वसात् पालय रक्ष / हे सुमतेन सुसिद्धान्तस्वामिन् ! / यद्वा सुमतेन करणभूतेन / हे अपालय अपगतनिलय ! / हे कनकतार तपनीयोज्ज्वल ! / हे इतारे गतशात्रव ! / हे पातस्त्रायक ! / अरातिक्षतिः शत्रुभ्य उपमर्दः सैव रौद्रात्मकत्वात् क्षपा रात्रिस्तस्याः सकाशात् / / 17 // समग्रजिनेश्वराणां विज्ञप्तिःविधुतारा ! विधुताराः ! सदा सदाना ! जिना ! जिताघाताघाः ! / 1. 'तेषां' पदस्याऽनन्तरं 'इनः यः स तस्य संबोधन' मिति वाक्यपूर्तिरत्राऽपेक्षते /