________________ श्रीसुमतिजिनस्तुतयः 79 तनुतापातनुतापा ! हितमाहितमानवनवविभवा ! विभवाः ! // 2 // 18 // - आर्या० ज० वि०-विधुतेति / हे जिनाः ! - तीर्थंकराः ! यूयं हितं-पथ्यं सदा-नित्यं तनुत-विस्तारयत / अत्र 'तनुत' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / किं कर्मतापन्नम् ? 'हितम्' | कथम् ? 'सदा' नित्यम् / कथंभूता जिनाः ? 'विधुताराः' विधुतं-निरस्तं आरं-अरीणां समूहो यैस्ते तथा / यद्वा अरणंआरो-भ्रमणं अर्थात् संसारः स विधूतो यैस्ते तथा / पुनः कथं० ? 'विधुताराः' विधुवत्-चन्द्रवत् ताराउज्ज्वलाः / पुनः कथं० ? 'सदानाः' सह दानेन वर्तमानाः / पुनः कथं०? 'जिताघाताघाः' अघातंघातवर्जितम्, केनापि हन्तुमशक्यमित्यर्थः, एतादृशं यत् अघ-पापं तत् जितं यैस्ते तथा / पुनः कथं० ? ‘अपातनुतापाः' अतनुः-महान् तापः-सन्तापः, अतनुतापः सोऽपगतो येभ्यस्ते तथा। पुनः कथं० ? 'आहितमानवनवविभवाः' आहितो-जनितो मानवानां-नराणां नवः-प्रत्यग्रः विभवः-ऐश्वर्यं यैस्ते तथा / पुनः कथं० ? 'विभवाः' विगतो भवः-संसारो येभ्यस्ते तथा / एतानि सर्वाण्यपि जिनानां विशेषणानि सम्बोधनपुरस्कारेणापि व्याख्यातुं घटन्ते / / अथ समासः-विधुतं आरं आरो वा यैस्ते विधु० ‘बहुव्रीहिः' / विधुवत् तारा विधु० 'तत्पुरुषः' / सह दानेन वर्तन्ते ये ते सदानाः ‘बहुव्रीहिः' / न विद्यते घातो यस्य तत् अघातं 'बहुव्रीहिः' / अघातं च तद् अघं च अघाताचं कर्मधारयः' / जितं अघाताचं यैस्ते जिताघाताघाः ‘बहुव्रीहिः' / न तनुः अतनुः 'तत्पुरुषः' / अतनुश्चासौ तापश्च अतनुतापः ‘कर्मधारयः' / अपगतः अतनुतापो येभ्यस्ते अपा० 'बहुव्रीहिः' / नवश्चासौ विभवश्च नवविभवः ‘कर्मधारयः' / मानवानां नवविभवो मानव० 'तत्पुरुषः' / आहितो मानवनवविभवो यैस्ते आहि० ‘बहुव्रीहिः' / विगतो भवो येभ्यस्ते विभवाः ‘बहुव्रीहिः' / / इति काव्यार्थः / / 18 / / (2) सि० वृ०-विधुतेति / हे जिनाः ! जयन्ति रागद्वेषानिति जिनाः-तीर्थङ्कराः ! यूयं हितं पथ्यं सदानित्यं तनुत-विस्तारयतेत्यर्थः / 'तनु विस्तारे' 'आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् / 'तनादेरुप्' (सा० सू० 997) / तथा च 'तनुत' इति सिद्धम् / अत्र 'तनुत' इति क्रियापदम् / के कर्तारः ? | यूयम् / किं कर्मतापन्नम् ? हितम् / कथम् ? / सदा इति क्रियाविशेषणम् / कथंभूता जिनाः ? / 'विधुताराः' विधुतं-निरस्तं अरीणां समूहः आरम्, समूहार्थे अण् यैस्ते तथा /