________________ शोभनस्तुति-वृत्तिमाला अत्रारपदेन इन्द्रियरूपा एव शत्रवो ग्राह्याः, तेषामेवालयत्वात् / तथा चेति। विधुताः-स्ववशे कृताः यैरिति भावः / यद्वा विधुतं 'ऋ गतौ' इति धातोः अरणं आरः-भ्रमणं अर्थात् सांसारिकं यैस्ते विधुतारा इत्यर्थः / पुनः किंविशिष्टा विधुताराः ? / ' विधुताराः' विधुः-चन्द्रः तद्वत् तारा विधुताराः चन्द्रवन्निर्मला इत्यर्थः / पुनः कथंभूताः ? / 'सदानाः' सह दानेन वर्तमानाः सदानाः / पुनः कथंभूताः ? / 'जिताघाताघाः' न विद्यते घातो यस्य तत् अघातं-घातवर्जितं केनापि हन्तुमशक्यमित्यर्थः, एतादृशं यद् अघ-पापं तद् जितं यैस्ते तथा / अघातं च तद् अघं चेति ‘कर्मधारयः' / अन्यागमोक्तहिंसाप्रधानकर्मसु पापत्वप्रदर्शनेन दयाया एव सर्वोत्कृष्टत्वप्रदर्शनमुखेन च हिंसाजन्यसकलपापविध्वंसका इत्यर्थः / पुनः कथंभूताः ? / 'अपातनुतापाः' अतनुः-महान् चासौ तापः-सन्तापः अतनुतापः सोऽपगतो येभ्यः ते तथा / पुनः कथंभूताः ? / 'आहितमानवनवविभवाः' आहितो-जनितो मानवानां-मनुष्याणां नवः-प्रत्यग्रः स चासौ विभवः-ऐश्वर्यं यैस्ते तथा / पुनः कथंभूताः ? / विभवाः' विगतो भवः-संसारो येभ्यस्ते विभवाः / एतानि सर्वाण्यपि विशेषणानि सम्वोधनपुरस्कारेणापि व्याख्यातुं घटन्ते / / 18 / / ___ सौ० वृ०-विधुतारा इति / जिनाः ! - तीर्थंकराः ! हितं-पथ्ये तनुत-विस्तारयत इत्यन्वयः / 'तनुत' इति क्रियापदम् / के कर्तारः ? / जिनवराः / किं कर्मतापन्नम् ? / 'हितं' पथ्यम् / किंविशिष्टा जिनाः ? / विधुतं-त्यक्तं अरीणां समूहः आरं, अथवा अरणं भ्रमणं आरं चतुर्गतिलक्षणं यैस्ते 'विधुताराः' / पुनः किंवि० जिनाः ? / विधुः-चन्द्रः तद्वत् तारा-उज्ज्वलाः ‘विधुताराः' / पुनः किंवि० जिनाः ? | ‘सदानाः' सत्यागाः / कथम् ? / 'सदा' नित्यम् / पुनः किंवि० जिनाः ? / जितं अघातं-न घातयोग्यं अघं-पापं यैस्ते ‘जिताघाताघाः' / पुनः किंवि० जिनाः ? / अपगतः अतनुः-महान् तापो येषां ते 'अपातनुतापाः' / पुनः किंवि० जिनाः ? / आहितः-स्थापितः दत्तो वा मानवानां-मनुष्याणां नवः-प्रत्यग्रो विभवः-ऐश्वर्यं यैः ते 'आहितमानवनवविभवाः' / पुनः किंवि० जिनाः ? / विगतः-विशेषेण गतो भवः-संसारो येपां ते 'विभवाः' / एवंविधा जिनाः ! हितं विस्तारयत / इति पदार्थः / / ___ अथ समासः-अरीणां समूहो आरम्, अथवा अरणं-भ्रमणं आरं, विधुतं आरं यैस्ते विधुताराः / विधुवत् ताराः विधुताराः / दानेन सहिताः सदानाः / घात्यते इति घातं, न घातं अघातं, अघातं च तद् अघं च अघाताचं, जितं अघाताचं यैस्ते जिताघाताघाः / न तनुः अतनुः, अतनुश्चासौ तापश्च अतनुतापः, अपगतः अतनुतापो येभ्यः ते अपातनुतापाः / नवश्चासौ विभवश्च नवविभवः, मानवानां नवविभवः मानवनवविभवः, आहितः मानवनवविभवो यैस्ते आहितमानवनवविभवाः / विगतो भवः संसारो येषां ते विभवाः / / इति द्वितीयवृत्तार्थः / / 18 / /