________________ श्रीसुमतिजिनस्तुतयः (4) __दे० व्या०-विधुतारा इति / हे जिनाः-तीर्थंकराः ! यूयं हितं-पथ्यं सदा-निरन्तरं यथा स्यात् तथा तनुत-विस्तारयत इत्यन्वयः ! 'तनु विस्तारे' इति धातुः / 'तनुत' इति क्रियापदम् / के कर्तारः ? / यूयम् / किं कर्मतापन्नम् ? / हितम् / किंविशिष्टा यूयम् ? / विधुताराः' अरीणां-शत्रूणां समूहः आरम्, विशेषण धुतं-कम्पितं आरं यैः ते तथा / अत्र आरपदेन इन्द्रियरूपा एव शत्रवो ग्राह्याः, तेषामेवाजेयत्वात् / तथा च ते विधुताः-स्ववशे कृताः यैरिति भावः / पुनः किंविशिष्टाः? / 'विधुताराः' विधुः-चन्द्रः तद्वत् ताराःउज्ज्वलाः निखिलकर्ममलापगमात् सर्वदा मलोज्झितशरीरत्वाच्चेति भावः / पुनः किंविशिष्टाः ? / 'सदानाः' दानं-वितरणं तेन सह वर्तमानाः सांवत्सरिकदानदायकत्वात् / पुनः किंविशिष्टा जिनाः ? | 'जिताघाताघाः' जितं-पराजितं अघातं-घातरहितं अघं-पापं यैः ते तथा / हिंसाप्रधानस्याघस्य सर्वदैव निरस्तत्वात् तद्भिन्नमप्यघं यैर्हरातापास्तमिति भावः / वस्ततस्तु जितं आघाताचं आघातः-प्राणिवधः तत्संवन्धि अघं-पापं यैस्ते तथा / अन्यागमोक्तहिंसाप्रधानमुपायत्वप्रदर्शनेन दयाया एव सर्वोत्कृष्टत्वप्रदर्शनमुखेन च हिंसाजन्यसकलपापविध्वंसका इत्यर्थः / पुनः किंविशिष्टाः ? / 'अपातनुतापाः' अपगतः अतनुः-प्रचुरः तापः-सन्तापो येभ्यस्ते तथा / तदनु क्रोधादीनां मूलतः छिन्नत्वात् / पुनः किंविशिष्टाः ? | ‘आहितमानवनवविभवाः' आहितः-पूरितो मानवानां-मनुष्याणां नवः-प्रत्यग्रः अपूर्व इति यावत् विभवः-ऐश्वर्यं यैस्ते तथा / पुनः किंविशिष्टाः ? / 'विभवाः' विगतो भवः-संसारो येषां ते तथा / / इति द्वितीयवृत्तार्थः / / 18 / / (5). ध० टीका-विधुतारेति / 'विधुताराः' विधुतं आरं अरीणां समूहः, अरणं वा आरः भ्रमणं अर्थात् संसारे यैस्ते / 'विधुताराः' चन्द्रोज्ज्वलाः / 'सदा' सर्वकालम् / 'सदानाः' दानसहिताः / 'जिनाः' तीर्थकृतः / 'जिता-घाताघाः' जितं अघातं-घातवर्जितं अघ-पापं यैस्ते / 'तनुत' विस्तारयत / 'अपातनुतापा' अपगतो अतनु-महान् तापो येषां ते / ‘हितं' पथ्यम् / ‘आहितमानवनवविभवाः' आहितो-जनितो मानवानां नवविभवः-प्रत्यग्रैश्वर्यं यैस्ते / 'विभवाः' विगतसंसाराः / हे जिनाः हितं तनुतेति सम्बन्धः / / 18 / / अवचूरिः विधुतारा हे जिनाः ! हितं तनुत कुरुत / विधुतमारमरीणां समूहोऽरणं वा अरो भ्रमणमर्थात् संसारो यैस्ते / तथा विधुश्चन्द्रस्तद्वदुज्ज्वलाः / सदानाः सत्यागाः / जितमघातं घातवर्जितमघं पापं यैस्ते /