________________ 82 शोभनस्तुति-वृत्तिमाला अपगतमहातापाः / आहितो विस्तीर्णो मानवानां नवविभवो नवः प्रत्यग्रो विभव ऐश्वर्यं यैस्ते / तथा विगतसंसाराः / / 18 / / सर्वज्ञस्य सिद्धान्तस्य स्मरणम्मतिमति जिनराजि नरा ऽऽहितेहिते रुचितरुचि तमोहेऽमोहे / मतमतनूनं नूनं. स्मरास्मराधीरधीरसुमतः सुमतः // 3 // 19 // - आर्या० ज० वि०-मतिमतीति / अत्र यत्तदोरध्याहारं विधाय व्याख्यानं कार्यम् / भो भव्यात्मन् ! यद् मतं-दर्शनं जिनराजि-जिनेन्द्रविषयेऽस्ति तत् त्वं नूनं-निश्चितं स्मर-ध्यायेति क्रियाकारकयोजना / अत्र 'स्मर' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / किं कर्मतापन्नम् ? ‘मतम्' / कथं ? 'नूनम्' / मतं कथंभूतं ? 'तत्' / तत् किम् ? / यज्जिनराजि अस्ति / अत्रापि ‘अस्ति' इति क्रियापदम् / किं कर्तृ ? 'यत्' / कस्मिन् ? 'जिनराजि' / मतं पुनः कथंभूतं ? 'अतनूनम्' तनु च ऊनं च यन्न भवति तत् तथा / जिनराजि कथंभूते ? ‘मतिमति' गर्भवासादिष्वप्यवस्थासु सातिशयमतियुक्ते / नित्ययोगादावयं मतुप्प्रत्ययः / पुनः कथं० ? 'नराहितेहिते' नराणां आहितं-कृतं ईहितं-वाञ्छितं येन स तथा तस्मिन् | पुनः कथं० ? रुचितरुचि' रुचिता-अभीष्टा रुक्-दीप्तिर्यस्य स तथा तस्मिन् / पुनः कथं० ? 'तमोहे' तमः-अज्ञानं हन्ति जहाति वा स तमोहस्तस्मिन् / पुनः कथं० ? 'अमोहे' मोहरहिते / त्वं कथंभूतः सन्नित्याह / 'अस्मराधीरधीः' न स्मरेण अधीरा धीर्यस्य स तथा / तादृशस्यैव स्मरणोचितत्वात् / पुनः कथं० 'सुमतः' प्राणिरक्षादिक्रियया सुष्ठु अभिप्रेतः संमत इत्यर्थः / कस्य ? 'असुमतः' प्राणिनः / अत्रैकवचनस्य तु जात्यपेक्षया प्रयोगः / / अथ समासः-जिनेषु राजत इति जिनराट् 'तत्पुरुषः' / यद्वा जिनानां जिनेषु वा राट् 'तत्पुरुषः' / आहितं ईहितं येन स आहितेहितः ‘बहुव्रीहिः' / नराणां आहितेहितः नराहि० 'तत्पुरुषः' / तस्मिन् नराहि० / रुचिता रुक् यस्य स रुचितरुक् ‘बहुव्रीहिः' / तस्मिन् रुचि० / तमो हन्ति जहाति वा तमोहः 'तत्पुरुषः' / तस्मिन् तमोहे / न विद्यते मोहो यस्य सोऽमोहः 'तत्पुरुषः' / तस्मिन्नमोहे / तनु च तत्