________________ श्रीसुमतिजिनस्तुतयः ऊनं च तनूनं 'कर्मधारयः' / न तनूनं अतनूनं तत्पुरुषः' / न धीरा अधीरा 'तत्पुरुषः' / स्मरेण अधीरा स्मराधीरा 'तत्पुरुषः' / स्मराधीरा धीर्यस्य स स्मराधीरधीः ‘बहुव्रीहिः' / न स्मराधीरधीः अस्मरा० 'तत्पुरुषः' सुष्ठु मतः सुमतः 'तत्पुरुषः' / / इति काव्यार्थः / / 19 / / (2) सि० वृ०-मतिमतीति / अत्र यत्तदोरध्याहारं विधाय व्याख्यानं कार्यम् / भो भव्यात्मन् ! यन्मतं दर्शनं जिनानां जिनेषु वा राजते इति जिनराट्, तस्मिन् जिनराजि, जिनेन्द्रविषयेऽस्ति तत् त्वं नूनंनिश्चितं स्मर-ध्यायेत्यर्थः / ‘स्मृ चिन्तायाम्' इति धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / अत्र ‘स्मर' इति क्रियापदम् / कः कर्ता ? / त्वम् / किं कर्मतापन्नम् ? / मतम् / कथम् ? / नूनम् / कीदृशं मतम् ? / तत् / तत् किम् ? / यत् जिनराजि अस्ति / अत्रापि 'अस्ति' इति क्रियापदम् / किं कर्तृ ? / यत् / कस्मिन् ? / जिनराजि / मतं पुनः कथंभूतम् ? / 'अतनूनं' तनु च ऊनं च यन्न भवति तथा / यद्वा परैर्दूषयितुं शक्यं ऊनं परमतापेक्षया सकलार्थाप्रकाशं तादृशं न किन्तु परैर्दूषयितुमशक्यं यावदर्थप्रकाशकं चेत्यर्थान्तरम् / जिनराजि कथंभूते ? / 'मतिमति' गर्भवासादिष्ववस्थासु सातिशयमतियुक्ते / नित्ययोगादावयं मतुप् / पुनः कथंभूते ? / 'नराहितेहिते' नराणां आहितं-पूरितं ईहितं-वाञ्छितं येन स तथा तस्मिन् / पुनः कथंभूते ? / 'रुचितरुचि' रुचिताअभीष्टा रुक-दीप्तिर्यस्य स तथा तस्मिन् / पुनः कथंभूते ? / 'तमोहे' तमः-अज्ञानं हन्ति जहाति वा स तमोहः, क्वचित्' (सि० अ० 5, पा० 1, सू० 171) इति डः, तस्मिन् / पुनः कथंभूते ? / 'अमोहे' न विद्यते मोहो यस्य सः अमोहः तस्मिन् / त्वं कथंभूतः सन् इत्याह- अस्मराधीरधीः' न स्मरेण-कामेन अधीरा-विह्वला धीः मतिर्यस्य स तथा / तादृशस्यैव स्मरणोचितत्वात् / पुनः कीदृशः ? / असुमतःप्राणिनः / जातावत्रैकवचनम् / रक्षादिक्रियायां सुमतः / सुतरामभिप्रेत इत्यर्थः / / 19 / / - सौ० वृ०-मतिमतीति / त्वं जिनराजि सर्वज्ञमतं शासनं दर्शनं वा नूनं-निश्चितं स्मर इत्यन्वयः / ‘स्मर' इति क्रियापदम् / कः कर्ता ? / 'त्वम्' / ‘स्मर' ध्याय / किं कर्मतापन्नम् ? / 'मतं' प्रवचनम् / कस्मिन् ? | 'जिनराजि' जिनाः-सामान्यकेवलिनः तेषु राजते इत्येवंशीलो यः स जिनराट् तस्मिन् जिनराजि / कथम् ? / 'नूनं' इति निश्चितम् / किंविशिष्टस्त्वम् ? / 'सुमतः' शोभनः मतः सुमतः रक्षकः / कस्य ? / 'असुमतः' प्राणिनः / जातावेकवचनम् / पुनः किंविशिष्टस्त्वम् ? / अस्मरा-अस्मरणशीला धीरा-निश्चला धी:-बुद्धिः यस्य सः ‘अस्मराधीरधीः' / किंविशिष्टं मतम् ? / तनु-कृशं ऊनं-असंपूर्णं ते द्वे यत्र न स्तः तत् ‘अतनूनं' महत्, संपूर्णं इत्यर्थः / किंविशिष्टे जिनराजि ? / मतिमति' गर्भवासादारभ्य