________________ 84 शोभनस्तुति-वृत्तिमाला संपूर्णबुद्धिमति / पुनः किंविशिष्टे जिनराजि ? | नराणां-मनुष्याणां आहितं-स्थापितं दत्तं वा ईहितंवाञ्छितं येन स नराहितेहितः तस्मिन् ‘नराहितेहिते' पुनः किंविशिष्टे जिनराजि ? / रुचिता-सर्वजनानां अभीष्टा रुक् कान्तिा यस्य स रुचितरुक् तस्मिन् ‘रुचितरुचि' / पुनः किंविशिष्टे जिनराजि ? | तमः-अज्ञानं हन्तीति तमोहः तस्मिन् ‘तमोहे' / पुनः किंविशिष्टे जिनराजि ? / न विद्यते मोहो-मूर्छा भ्रान्तिर्वा यस्य सः अमोहः तस्मिन् ‘अमोहे' / इति पदार्थः / / अथ समासः-मतिः विद्यते यस्य स मतिमान्, तस्मिन् मतिमति / अत्र अस्त्यर्थे मतुः' इत्यनुभूतिः (सा० सू० 606) / जिनेषु राजते इति जिनराट्, तस्मिन् जिनराजि / नराणां नरेषु वा आहितं ईहितं येन स नराहितेहितः, तस्मिन् नराहितेहिते / रुचिता रुग् यस्य स रुचितरुक्, तस्मिन् रुचितरुचि / तमो हन्तीति तमोहः, तस्मिन् तमोहे | न मोहः अमोहः, तस्मिन् अमोहे / तनु च ऊनं च तनूने, न विद्यते तनूने यस्मिन् तद् अतनूनम् / न धीरा अधीरा, अधीरा चासौ धीश्च अधीरधीः, न विद्यते स्मरे-स्मरणे अधीरधीः यस्य असौ अस्मराधीरधीः / असवः-प्राणा विद्यन्ते यस्य असौ असुमान्, तस्य असुमतः / सुष्ठु मतं यस्य स सुमतः / / इति तृतीयवृत्तार्थः / / 19 / / . (4) दे० व्या०–मतिमतीति / हे जन ! - हे लोक ! त्वं जिनराजि-सार्वविषये मतं-प्रवचनं नूनं-निश्चितं स्मरस्मृतिगोचरीकुरु इत्यन्वयः / 'स्मृ चिन्तायाम्' इति धातुः / ‘स्मर' इति क्रियापदम् / कः कर्ता ? / त्वम् / किं कर्मतापन्नम् ? / मतम् / कस्मिन् ? / 'जिनराजि' जिनेषु-तीर्थंकरेषु राजते इति जिनराट् तस्मिन् / किंविशिष्टे जिनराजि ? / ‘मतिमति' मतिः-बुद्धिः सा विद्यते यस्मिन् स तस्मिन् / पुनः किंविशिष्टे ? / 'नराहितेहिते' नराणां-मनुष्याणां आहितं-पूरितं हितं-वाञ्छितं येन स तस्मिन् / पुनः किंविशिष्टे ? / 'रुचितरुचि' रुचिता सर्वेषामाहादकत्वेन रुक्-कान्तिर्यस्य स तस्मिन् / पुनः किंविशिष्टे ? | तमोहे-अज्ञाननाशके / पुनः किंविशिष्टे ? / ‘अमोहे' मोहो मौढ्यं तेन रहिते / “मोहो मौढ्यं चिन्ता ध्यानं” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 234) / किंवि० मतम् ? / 'अतनूनम्' तनु-परैः हापयितुं शक्यम् ऊनं परमतापेक्षया सकलार्थाप्रकाशकं तादृशं न किन्तु परैर्हापयितुं अशक्यम् / यावदर्थप्रकाशकं चेति भावः / किंविशिष्टस्त्वम् ? / 'अस्मराधीरधीः' नास्ति स्मरेणकन्दर्पण अधीरा-चञ्चला धी:-बुद्धिः यस्य स तथा / पुनः किंविशिष्ट: ? / सुमतः-सुन्दराभिप्रेतः / कस्य ? / असुमतः-प्राणिनः / असवो विद्यन्ते यस्यासौ असुमान् तस्य इति व्युत्पत्तिः / जातावेकवचनम् / / इति तृतीयवृत्तार्थः / / 19 / /