________________ श्रीसुमतिजिनस्तुतयः (5) ध० टीका-मतिमतीति / ‘मतिमति' गर्भवासादिष्वप्यवस्थासु सातिशयमतियुक्ते / नित्ययोगादावयं मतुप्प्रत्ययः / 'जिनराजि’ जिनाः-केवलिनस्तेषु राजते यस्तस्मिन् / 'नराहितेहिते' नराणां आहितेहिते-कृतसमीहिते / 'रुचितरुचि' रुचिता-अभीष्टा रुक्-दीप्तिर्यस्य सम्बन्धिनी तस्मिन् / 'तमोहे' अज्ञानघातिनि / ‘अमोहे' मोहरहिते / ‘मतं' दर्शनम् / ‘अतनूनं' तनु च ऊनं च यन्न भवति तत् / 'नूनं' निश्चितम् / ‘स्मर' ध्याय / ‘अस्मराधीरधीः' न स्मरेण अधीरा धीर्यस्य सः / ‘असुमतः' प्राणिनः / ‘सुमतः' प्राणिरक्षादिक्रियया सुष्ठु अभिप्रेतः / स्मरेति मध्यमैकवचनप्रयोगात् त्वमिति लभ्यते / तेन त्वं अस्मराधीरधीः असुमतः सुमतः सन् जिनराजि जिनेन्द्रविषये यन्मतं तत् स्मरेति सम्बन्धः / / 19 / / . अवचूरिः जिनराजि सर्वज्ञे मतं त्वं स्मरेति संबन्धः / किंभूते / मतिमति सातिशयज्ञानयुक्ते / नराणामाहितं पूरितमीहितं वाञ्छितं येन तस्मिन् / रुचिता परेषां प्रमोदकारित्वादभीष्टा रुक् कान्तिर्यस्य तस्मिन् / तमोहे अज्ञानघातिनि / अमोहे ममत्वमुक्ते / मतं किंभूतम् / तनु तुच्छमूनमपूर्णं च तनूननं न एवंविधमतनूनम् / नूनं निश्चितम् / त्वं किंभूतः / न स्मरेणाधीरा धीर्यस्य सः / असुमतः प्राणिनः ! जातावेकत्वम् / सुमतो रक्षाक्रियायां सुष्ठु अभिप्रेतः / / 19 / / कालीदेव्यै प्रार्थनानगदामानगदा मा महो ! महोराजिराजितरसा तरसा / घनघनकाली काली बतावतादूनदूनसत्रासत्रा // 4 // 20 // - आर्या 1. 2. दाऽमा०' इत्यपि पाठः / 'सत्रा' इति पृथक् पदं वा /