________________ शोभनस्तुति-वृत्तिमाला ज० वि०-नगदामेति / 'अहो' इत्यामन्त्रणे विस्मये वा, बतेति विस्मये, काली-काल्यभिधाना देवी मां तरसा-वेगेन बलेन वा अवतात्-रक्षतात् इति क्रियाकारकप्रयोगः / अत्र ‘अवतात्' इति क्रियापदम् | का कर्जी ? 'काली' / कं कर्मतापन्नम् ? ‘माम्' / केन ? 'तरसा' अवतादित्यत्र बवयोरैक्यं तु यमकवशादवसेयम् / “यमकश्लेषचित्रेषु ववयोर्डलयोन भित्” इति वचनात् / काली कथंभूता ? 'नगदामानगदा' नगान् द्यति-खण्डयतीति नगदा, अमाना-अप्रमाणा महतीत्यर्थः, एतादृशी गदाप्रहरणविशेषो यस्याः सा तथा / पुनः कथंभूता ? 'महोराजिराजितरसा' महांसि-तेजांसि तेषां राजिःततिः तया राजिता-शोभिता रसा-पृथिवी यया सा तथा / पुनः कथंभूता देवी ? 'घनघनकाली' घनाःसान्द्राः घनाः-मेघास्तद्वत् काली-श्यामा / पुनः कथं० ? 'ऊनदूनसत्रासत्रा' ऊनाः-स्तोकाःपरिवारराहित्येनाल्पाः दूनाः-उपतप्ताः-संतापवन्तः सत्रासाः-सभयाः तान् त्रायत इति ऊनदूनसत्रासत्रा / / अथ समासः-नगान् द्यतीति नगदा 'तत्पुरुषः' / न विद्यते मानं यस्याः सा अमाना ‘बहुव्रीहिः' / अमाना चासौ गदा च अमानगदा 'कर्मधारयः' / नगदा अमानगदा यस्याः सा नगदा० 'बहुव्रीहिः' / महसां राजिमहोराजिः 'तत्पुरुषः' / महोराज्या राजिता महोरा० 'तत्पुरुषः' / महोराजिराजिता रसा यया सा महोरा० 'बहुव्रीहिः' / घनाश्च ते घनाश्च घनघनाः ‘कर्मधारयः' / घनघनवत् काली घन० 'तत्पुरुषः' / ऊनाश्च दूनाश्च सत्रासाश्च ऊनदूनसत्रासाः ‘इतरेतरद्वन्द्वः' / ऊनदूनसत्रासान् त्रायते इत्यूनदूनसत्रासत्रा 'तत्पुरुषः' / / इति काव्यार्थः / / 20 / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीसुमतिजिनस्तुतिवृत्तिः / / 4 / 5 / 20 // सि० वृ०-नगदामेति / अहो इत्यामन्त्रणे / “अहो बतानुकम्पायां, खेदे सम्बोधनेऽपि च” इति विश्वः / बतेति विस्मये / “खेदानुकम्पासन्तोष-विस्मयामन्त्रणे बत” इत्यमरः (श्लो० 2823) / कालीकाल्यभिधाना देवी मां तरसा-वेगेन बलेन वा अवतात्-रक्षतादित्यर्थः / 'अव रक्षणे' धातोः 'आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे तातङि प्रथमपुरुषैकवचनम् / अवतादित्यत्र बवयोरैक्यं तु यमकवशादवसेयम्, “यमकश्लेषचित्रेषु बवयोर्डलयोन भित्” इति वचनात् / काली कथंभूता ? / 'नगदामानगदा' नगान्-पर्वतान् द्यति-खण्डयतीति नगदा सा चासावमाना-अप्रमाणा महतीत्यर्थः गदा-प्रहरणविशेषो यस्याः सा तथा / पुनः कथंभूता ? | ‘महोराजिराजितरसा' महांसितेजांसि तेषां राजिः-ततिः तया राजिता-शोभिता रसा-पृथिवी यया सा तथा / “राजिलेखा ततिर्वीथी, मालाल्यावलिपङ्क्तयः” इति हैमः (का० 6, श्लो० 59) / “सर्वसहा रत्नगर्भा, जगती मेदिनी रसा" इति हैमः (का० 4, श्लो० 3) / पुनः कथंभूता ? / 'घनघनकाली' घनाः-सान्द्राः ते च ते घना-मेघाः