________________ श्रीसुमतिजिनस्तुतयः 87 तद्वत् काली-श्यामा / पुनः कथंभूता ? / 'ऊनदूनसत्रासत्रा' ऊनाः-स्तोकाः परिवारराहित्येनाल्पाः, दूनाःउपतप्ताः-सन्तापवन्तः, सत्रासाः-सभयाः, ऊनाश्च दूनाश्च सत्रासाश्च ऊनदूनसत्रासाः ‘इतरेतरद्वन्द्वः' तान् ऊनदूनसत्रासान् त्रायते इत्यूनदूनसत्रासत्रा 'तत्पुरुषः' / 'स्कन्धकं' छन्दः / / 4 / / / / इति महोपाध्यायश्रीभानुचन्द्रगणिशिष्यमहोपाध्यायश्रीसिद्धिचन्द्रगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीसुमतिजिनस्तुतिवृत्तिः // 4 / 5 / 20 // सौ० वृ०-नगदामेति / 'अहो' इति आश्चर्ये कोमलामन्त्रणे वा / कालीनाम्नी देवी मां अवतात् इत्यन्वयः / 'अवतात्' इति क्रियापदम् / का की ? | 'काली' / 'अवतात्' रक्षतु / कं कर्मतापन्नम् ? / 'माम्' / कथम् ? / 'तरसा' वेगेन / कथम् ? / ‘बत' इति खेदे / किंविशिष्टा काली ? / नगान्-पर्वतान् धति-खण्डयति इति 'नगदा' / पुनः किंविशिष्टा काली ? / 'अमाना' अप्रमाणा / गदा-प्रहरणविशेषो यस्याः सा ‘अमानगदा' / पुनः किंविशिष्टा काली ? / महोभिः-तेजोभिः राजिता-शोभिता रसा-पृथ्वी यया सा ‘महोराजितंरसा' | पुनः किं० काली ? | घनो-निचितः जलेन पूर्णः एतादृशो यो घनः-मेघः तद्वत् काली-वर्णेन श्यामा 'घनघनकाली' | पुनः किं० काली ? | ऊना-हीनाः सौभाग्यादिना दूनादुःखिताः सत्रासाः-सभयाः तान् प्रति त्रायते-रक्षतीति ‘ऊनदूनसत्रासत्रा' / एतादृशी काली विद्यादेवी मां अवतात् / इति पदार्थः / / ...अथ समासः-नगान् द्यति-खण्डयति इति नगदा / अमाना गदा यस्याः सा अमानगदा / यद्वा माने-साहंकारे जने गदा इव गदा मानगदा / महोभिः राजिता रसा यया सा महोराजितरसा / घनश्चासौ घनश्च घनघनः, यद्वा घनेन-जलेन घनः घनघनः, घनघनवत् काली घनघनकाली / त्रासेन सहिताः सत्रासाः, ऊनाश्च दूनाश्च सत्रासाश्च ऊनदूनसत्रासाः, ऊनदूनसत्रासान् त्रायते इति ऊनदूनसत्रासत्रा / “तरसा बलवेगयोः” इति महीपः / “कीलालं भुवनं वनं घनरसः” इति हैमः (का० 4, श्लो० 135) / "बासस्त्वाकस्मिकं भयं” इति हैमः (का० 2, श्लो० 235) / अस्यां स्तुतौ औपच्छन्दसिकजात्या द्वित्र्यक्षरैः यमकालंकारः / / इति चतुर्थवृतार्थः / / 20 / / श्रीपञ्चमजिनेशस्य, स्तुतेरर्थो लिवीकृतः / सौभाग्यसागराख्येण सूरिणा ज्ञानसेविना // // इति सुमतिजिनस्तुतिवृत्तिः // 4 / 5 / 20 // दे० व्या०–नगदामेति / 'अहो' इत्याश्चर्ये / 'बत' इति विस्मये / काली देवी मां तरसा-शीघ्र अवतात्-रक्षतात् इत्यन्वयः / अव रक्षणे' इति धातुः / अवतात्' इति क्रियापदम् / का की ? / 'काली'