________________ 88 शोभनस्तुति-वृत्तिमाला देवी / कं कर्मतापन्नम् ? / माम् / अवतादित्यत्र बवयोरैक्यात् वकारस्थाने बकारग्रहणम् / किंविशिष्टा काली ? / 'नगदामानगदा' नगं-पर्वतं द्यति-खण्डयतीति नगदा एवंविधा अमाना-अप्रमाणा विपुलत्वात् गदा-प्रहरणविशेषो यस्याः सा तथा / पुनः किंविशिष्टा ? / ‘महोराजिराजितरसा' महसः-प्रभायाः राजिः-पंक्तिः तया राजिता-शोभिता रसा-पृथिवी यया सा तथा / “जगती मेदिनी रसा" इत्यभिधानचिन्तामणिः (का० 4, श्लो० 3) / पुनः किंविशिष्टा ? / 'घनघनकाली' घनो-निविडो यो घनो-मेघः तद्वत् काली-कृष्णवर्णा | पुनः किंविशिष्टा ? / 'ऊनदूनसत्रा' ऊना-अपूर्णा धनैरिति शैषः, अत एव दूनाः-दुःखिताः तेषां सत्रं-धनं यस्याः सा तथा। पुनः किंविशिष्टा ? / सत्रा-सुशीला / “सत्रं गृहं धनं सत्रं, सत्रं दानमिहेरितम् / सत्रं नाम वनं सत्रं, सत्रं सच्चरितं मतम् // " इत्यनेकार्थः / अथवा ऊना धनादिना दूना रोगादिना सत्रासाः-सभयाः विपक्षादिना तान् त्रायतेरक्षतीत्येकमेव पदम् / / इति चतुर्थवृत्तार्थः / / 20 / / 4 / 5 / 20 // ध० टीका-नगदेति / 'नगदाऽमानगदा' नगान्-पर्वतान् द्यति इति नगदा, अमाना-अप्रमाणा गदा-प्रहरणविशेषो यस्याः सा / 'मां' 'अहो' इत्यामन्त्रणे विस्मये वा / 'महोराजिराजितरसा' महोराजिभिः-तेजस्ततिभिः राजिता-शोभिता रसा-पृथ्वी यया सा / 'तरसा' वेगेन बलेन वा। 'घनघनकाली' घनाः-सान्द्रा ये घनाः तद्वत् काली-श्यामा / कालीति नाम्ना / ‘बत' बतेति विस्मये | 'अवतात्' रक्षतु / 'ऊनदूनसत्रासत्रा' ऊनाः-स्तोकाः दूनाः-उपतप्ताः सत्रासाः-सभयाः तांस्त्रायते या सा | काली तरसा मां अवतादित्यन्वयः / / 20 / / 4 / 5 / 20 // अवचूरिः अहो इति संबोधने विस्मये वा / काली देवी मामवताद् रक्षतात् / किंभूता / नगदा 'दो अवच्छेदने' इति धातोः पर्वतभेत्री / अमाना अप्रमाणा गदा प्रहरणविशेषो यस्याः सा / कान्तिराज्या राजिता शोभिता रसा भूमिर्यया सा / तरसा बलेन शीघ्रं वा / घनो मेघस्तद्वद् घनकाली प्रभूतकालवर्णा / बतेति विस्मये / ऊना अपूर्णाः दूना विपक्षैः सत्रासाः सभयास्तांस्त्रायते रक्षति या // 20 / / 4 / 5 / 20 //