________________ श्रीपद्मप्रभजिनस्तुतयः 6 श्रीपद्मप्रभजिनस्तुतयः अथ श्रीपद्मप्रभाय विनविःपादद्वयी दलितपद्ममृदुः प्रमोद मुन्मुद्रतामरसदामलतान्तपात्री / पाद्मप्रभी प्रविदधातु सतां वितीर्ण मुन्मुद्रतामरसदा मलतान्तपात्री // 1 // 21 // - वसन्ततिलका (8, 6) ज० वि०-पादद्वयीति / ‘पाद्मप्रभी' पद्मप्रभस्येयं पाद्मप्रभीति व्युत्पत्तेः पद्मप्रभतीर्थकरसम्बन्धिनी पादद्वयी-चरणद्वितयी प्रमोदं-आनन्दं प्रविदधातु-प्रकर्षेण विदधातु-करोत्विति क्रियाकारकान्वयः / अत्र ‘प्रविदधातु' इति क्रियापदम् / का की ? ‘पादद्वयी' / कं कर्मतापन्नम् ? 'प्रमोदम्' / पादद्वयी किं सम्बन्धिनी ? ‘पाद्मप्रभी' / पादद्वयी कथंभूता ? 'दलितपद्ममृदुः' दलानि जातान्यस्येति दलितं-विकसितं यत् पद्म-कमलं तद्वन्मृदुः-कोमला / पुनः कथं० ? 'उन्मुद्रंतामरसदामलतान्तपात्री' उन्मुद्राणि-विकसितानि, उद्गता मुद्रा-मुद्रणं येभ्यः इति व्युत्पत्तेः, उन्मुद्राणि यानि तामरसानि-महोत्पलानि तत्सम्बन्धीनि यानि दामानि लतानामन्तानि-प्रान्तानि कुसुमानीत्यर्थः तेषां पात्री-भाजनम्-आधार इत्यर्थः / सुरासुरादिभिः कमलकुसुमादिभिः कृत्वा पूजितत्वेन भगवत्पादद्वय्यां तामरसानां कुसुमानां च