________________ शोभनस्तुति-वृत्तिमाला सत्त्वात् / अथवा उन्मुद्रतामरसदामान्येव प्रलम्बत्वात् लता-वल्लयः तासामन्तपात्री-समीपभाजनम् / यदिवा उन्मुद्रतामरसदा आमलतान्तपात्री चेति विशेषणद्वयमेव / तथा चायमर्थः-उन्मुद्राणि-अपर्यन्तानि तामरसानि-कमलानि दयत इत्युन्मुद्रतामरसदा / यद्वा उन्मुत्-उद्गतहर्षं यद् रतं-सुरतं तत्र आमः-प्रत्यग्रो यो रसः-अभिलाषः तं द्यति-खण्डयतीति उन्मुद्रतामरसदा / तथा ‘आमलतान्तपात्री' आमलता-रोगवल्ली तस्या अन्तो-विनाशस्तस्य पात्री-भाजनम् / पुनः कथंभूता पादद्वयी ? 'वितीर्णमुत्' वितीर्णा-दत्ता मुत्प्रीतिर्यया सा तथा / केषाम् ? ‘सतां' सत्पुरुषाणाम् / पुनः कथं० ? 'मुद्रतामरसदा' मुदा-हर्षेण रता अमरसदः-सुरसभा यस्याः सा मुद्रतामरसदा | पुनः कथं० ? 'मलतान्तपात्री' मलेन-कर्मलक्षणेन तान्तान्ग्लानान् पाति-रक्षतीत्येवंशीला मलतान्तपात्री / / अथ समासः-पादयोद्धयी पादद्वयी तत्पुरुषः' / दलितं च तत् पद्मं च दलितपद्मं कर्मधारयः' / दलितपद्मवन्मृदुः दलितपद्ममृदुः 'तत्पुरुषः' / उद्ता मुद्रा येभ्यस्तान्युन्मुद्राणि 'बहुव्रीहिः' / उन्मुद्राणि च तानि तामरसानि च उन्मुद्र० 'कर्मधारयः' / उन्मुद्रतामरसानां दामानि उन्मुद्र० 'तत्पुरुषः' / लतानामन्तानि लतान्तानि 'तत्पुरुषः' / उन्मुद्रतामरसदामानि च लतान्तानि च उन्मुद्र० ‘इतरेतरद्वन्द्वः' / उन्मुद्रतामरसदामलतान्तानां पात्री उन्मुद्र० 'तत्पुरुषः' / यद्वा उन्मुद्रतामरसदामान्येव लता उन्मुंद्र० 'कर्मधारयः' / उन्मुद्रतामरसदामलतानामन्तः उन्मुद्र० 'तत्पुरुषः' / उन्मुद्रतामरसदामलतान्तस्य पात्री उन्मुद्र० 'तत्पुरुषः' / विशेषणद्वयपक्षे त्वेवं समासः / उन्मुद्रतामरसानि दयत इति उन्मुद्रतामरसदा 'तत्पुरुषः' / यद्वा उद्गतां मुद् यस्मात् तद् उन्मुत् ‘बहुव्रीहिः' / उन्मुत् च तत् रतं च उन्मुद्रतं कर्मधारयः' / आमश्चासौ रसश्च आमरसः ‘कर्मधारयः' / उन्मुद्रते आमरसः उन्मुद्रतामरसः 'तत्पुरुषः' / उन्मुद्रतामरसं द्यतीति उन्मुद्रतामरसदा 'तत्पुरुषः' / मलेन तान्ता मलतान्ताः 'तत्पुरुषः' / मलतान्तान् पातीत्येवंशीला मलतान्तपात्री 'तत्पुरुषः' / यद्वा पातीति पात्री मलतान्तानां पात्री मल० 'तत्पुरुषः' / / इति काव्यार्थः / / 21 / / (2) सि० वृ०-पादद्वयीति / पद्मप्रभस्येयं पाद्मप्रभी-पद्मप्रभतीर्थंकरसम्बन्धिनी पादयोर्द्वयी पादद्वयीचरणद्वितयी प्रमोदं-आनन्दं प्रविदधातु-प्रकर्षेण करोत्वित्यर्थः / प्रविपूर्वक 'डुधाञ् धारणपोषणयोः' इति धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'अप्०' (सा० सू० 691), 'द्विश्च' (सा० सू० 710) इति धकारस्य द्वित्वम्, ‘ह्रस्वः' (सा० सू० 713) इति पूर्वधकारस्य ह्रस्वत्वम्, 'झपानां जबचपाः' (सा० सू० 714) इति पूर्वधकारस्य दकारः / अत्र 'प्रविदधातु' इति क्रियापदम् / का कर्जी ? | पादद्वयी / कं कर्मतापन्नम् ? / प्रमोदम् / पादद्वयी