________________ श्रीपद्मप्रभजिनस्तुतयः किंसम्बन्धिनी ? / पाद्मप्रभी / कथंभूता पादद्वयी ? | ‘दलितपद्ममृदुः' दलानि जातान्यस्येति दलितं विकसितं वा यत् पद्म-कमलं तदिव मृदुः-सुकुमारा कोमलेति यावत् / 'वोतो गुणवचनात्' (पा० अ० 4, पा० 1, सू० 44) इति पाक्षिक ईबभावे मृदुरिति मन्तव्यम् / पुनः कथंभूता ? | ‘उन्मुद्रतामरसदामलतान्तपात्री' उन्मुद्राणि-विकसितानि, उद्गता मुद्रा-मुद्रणं येभ्य इति व्युत्पत्तेः, उन्मुद्राणि यानि तामरसानिमहोत्पलानि तत्सम्बन्धीनि यानि दामानि लतानामन्तानि प्रान्तानि च कुसुमानीत्यर्थः, तेषां पात्री-भाजनं आधारेत्यर्थः / “योग्यभाजनयोः पात्रं” इत्यमरः / सुरासुरादिभिः कमलकुसुमादिभिः कृत्वा पूजितत्वेन भगवत्पादद्वय्यां तामरसानां कुसुमानां च सदा सत्त्वादिति भावः / अथवा उन्मुद्रतामरसदामान्येव प्रलम्वत्वाद् लता-वल्लयस्तासामन्तपात्री-समीपभाजनम् / यदिवा उन्मुद्रतामरसदा आमलतान्तपात्री चेति विशेषणद्वयमेव / तथा चायमर्थः-उन्मुद्राणि-अपर्यन्तानि सुरासुरनिर्मितानि रेखात्मकानीव तामरसानि दयत इत्युन्मुद्रतामरसदा / यद्वा उद्गता मुद् यस्मात् तद् उन्मुद् उन्मुद्-हर्षदं यद् रतं-सुरतं तस्मिन् आमःप्रत्यग्रो यो रसः-अभिलाषस्तं द्यति-खण्डयतीति उन्मुद्रतामरसदा / उन्मुच्च तद् रतं च उन्मुद्रतं 'कर्मधारयः' आमश्चासौ रसश्च आमरसः ‘कर्मधारयः' / तथा 'आमलतान्तपात्री' आमो-रोगः तल्लक्षणा लता-वल्ली तस्या अन्तः-विनाशस्तस्य पात्री-भाजनं योग्या चेत्यर्थः / पुनः कथंभूता ? / 'वितीर्णमुत्' वितीर्णा दत्ता मुत्-प्रीतिर्यया सा तथा'। केषाम् ? | सतां-सत्पुरुषाणाम् / पुनः कथंभूता ? / 'मुद्रतामरसदा' मुदा-हर्षेण रता-आसक्ता अमराणां-देवानां सत्(दः)-सभा यस्याः सा तथा / “समाजः परिषत् सदः” इति हैमः (का० 3, श्लो० 146) / पुनः कथंभूता ? / 'मलतान्तपात्री' मलेन-पापलक्षणेन तान्तान्-ग्लानान् पाति-रक्षतीत्येवंशीला मलतान्तपात्री / शीलार्थेऽञ् / यद्वा पातीति पात्री मलतान्तानां पात्री मलतान्तपात्रीत्यर्थः / “मलोऽस्त्रियाम(स्त्री पाप ?) विकिट्टा" इत्यमरः (श्लो० 2729) / / 21 / / .. (3) - सौ० वृ०–यः सुमतिः भवति तस्य विकसितपद्मवत् मुखप्रभा भवति / अनेन सम्बन्धेन आयातस्य षष्ठस्य पद्मप्रभजिनस्य स्तुतिव्याख्यानं लिख्यते / पादद्वयीति / पादद्वयी-चरणद्वितयी सतां-सज्जनानां प्रमोदं-हर्षं प्रविदधातु इत्यन्वयः / 'प्रविदधातु' इति क्रियापदम् / का की ? / 'पादद्वयी' / 'प्रविदधातु' करोतु / कं कर्मतापन्नम् ? / 'प्रमोदं' प्रकर्षण हर्षम् / केषाम् ? / ‘सताम्' / किंविशिष्टा पादद्वयी ? / दलितं-विकसितं यत् पद्म-कमलं तद्वन्मृदुःकोमला ‘दलितपद्ममृदुः' / पुनः किंविशिष्टा पादद्वयी ? | उन्मुद्राणि स्मेराणि यानि तामरसानि-कमलानि तेषां दामानि-मालाः सैव लम्बायमानत्वात् लता-वल्ली तासां अन्तः-स्वरूपं निकटं वा तेषां पात्रीव पात्री१. 'ता एव लम्बायमानत्वात् लता-वल्लयस्तासां अन्तः स्वरूपं निकटं वा तस्य' इति प्रतिभाति /