________________ शोभनस्तुति-वृत्तिमाला भाजनं 'उन्मुद्रतामरसदामलतान्तपात्री' / पुनः किंविशिष्टा पादद्वयी ? / 'पाद्मप्रभी' पद्मप्रभजिनसंबन्धिनी / पुनः किंविशिष्टा पादद्वयी ? / वितीर्णा-दत्ता मुद्-आह्लादो यया सा 'वितीर्णमुद्' / पुनः किं० पादद्वयी ? / उद्तं यद् रतं-सुरतं तथा रागता तदेव आमरसः-अपक्वो यो रसः तं प्रति द्यतिखण्डयतीति 'उद्रतामरसदा' / यद्वा उत्-प्राबल्येन रतो-रागो उद्रतः, उद्रता अमरसदः-सुरसभा यस्यां सा 'उद्रतामरसदा' / यद्वा उन्मुद्राणि-विकस्वराणि तामरसानि-कमलानि सुरनिर्मितानि रेखात्मकानि वा दयतेप्रापयते इति ‘उन्मुद्रतामरसदा' / पुनः किंविशिष्टा पादद्वयी ? / मलः-कर्मजनितमलः तस्य भावः मलता (न मलता अमलता) तस्याः अन्तो नाशः तस्य पात्री-स्थानं ‘(अ) मलतान्तपात्री' कर्मनाशकृदित्यर्थः / यद्वा मलेन-कर्मरजसा तान्ताः-श्रान्ताः तान् पात्री-रक्षणशीला / यद्वा आमो-रोगः स एव लता-वल्ली तस्या अन्तो-नाशः तस्य पात्री-स्थानम् / इति पदार्थः / / अथ समासः-द्वयोः समाहारो द्वयी, पादयोर्द्वयी पादद्वयी / दलितं च तत् पद्मं च दलितपद्मम्, दलितपद्मवत् मृदुः दलितपद्ममृदुः / प्रकृष्टश्चासौ मोदश्च प्रमोदः, तं प्रमोदम् / उन्मुद्राणि च तानि तामरसानि च उन्मुद्रतामरसानि, उन्मुद्रतामरसानां दामानि उन्मुद्रतामरसदामानि, उन्मुद्रतामरसदामान्येव लता उन्मुद्रतामरसदामलताः, उन्मुद्रतामरसदामलतानां अन्तः उन्मुद्रतामरसदामलतान्तः उन्मु०लतान्तस्य पात्री उन्मु०लतान्तपात्री / यद्वा उन्मुद्रतामरसानि दयते इति उन्मुद्रतामरसदा / पद्मप्रभस्य इयं पाद्मप्रभी / वितीर्णा मुद् यया सा वितीर्णमुद् / उत्-प्राबल्येन रत उद्रतः, आमश्चासौ रसश्च आमरसः, उद्रत एव आमरसः उद्रतामरसः, उद्रतामरसं द्यति-खण्डयति इति उद्रतामरसदा / मलेन तान्ता मलतान्ताः, मलतान्तान् पातीति मलतान्तपात्री / यद्वा आमो-रोगः स एव लता आमलता, आमलताया अन्तो-नाशः आमलतान्तः, आमलतान्तस्य पात्री आमलतान्तपात्री / द्वितीयचतुर्थपादेषु यमकालङ्कारः / वसन्ततिलकाच्छन्दसा वृत्तमिदम् / / इति प्रथमवृत्तार्थः / / 21 / / दे० व्या०-पादद्वयीति / पाद्मप्रभी पादद्वयी प्रमोदं प्रविदधातु-करोतु इत्यन्वयः / 'डुधाञ् धारणपोषणयोः' इति धातुः / 'प्रविदधातु' इति क्रियापदम् / का की ? पादद्वयी / कं कर्मतापन्नम् ? / प्रमोदम् / किंविशिष्टा पादद्वयी ? / पाद्मप्रभी-पद्मप्रभसम्बन्धिनी / पुनः किंविशिष्टा ? / 'दलितपद्ममृदुः' दलितं-विकसितं यत् पद्म-कमलं तद्वत् मृदुः-कोमला / “दलितं स्फुटितं स्फुटं” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 194) / 'वोर्गुणात्' (सा० सू० 404) इति सूत्रस्य विकल्पितत्वेनात्र ईबभावः / पुनः किंविशिष्टा ? | ‘उन्मुद्रतामरसदामलतान्तपात्री' उन्मुद्राणि-विकसितानि यानि तामरसदामानिकमलमालाः लतान्ताः-पल्लवाः तेषां पात्रीव पात्री-भाजनम् / “पात्रामत्रे तु भाजनम्” इत्यभिधानचिन्तामाणिः (का० 4, श्लो० 92) / पुनः किंविशिष्टा ? / 'वितीर्णमुद्' वितीर्णा-दत्ता मुद्-आनन्दो