________________ श्रीपद्मप्रभजिनस्तुतयः यया सा तथा / केषाम् ? | सतां-सज्जनानाम्, दुर्जनानां तदसम्भवात् / पुनः किंविशिष्टा ? | 'मुद्रतामरसदा' मुदा-हर्षेण रता-आसक्ता अमरसदो-देवसभा यस्याः सा तथा / पुनः किंविशिष्टा ? | 'मलतान्तपात्री' मलेन कर्मणा तान्तान्-ग्लानान् पाति-रक्षतीत्येवंशीला / / इति प्रथमवृत्तार्थः / / 21 / / ध० टीका-पादद्वयीति / ‘पादद्वयी' चरणद्वितयी / ‘दलितपद्ममृदुः' विकसिताब्जकोमला / 'प्रमोद' आनन्दम् / 'उन्मुद्रतामरसदामलतान्तपात्री' उन्मुद्राणि-विकसितानि तामरसदामानि-कमलमाला लतान्तानि-कुसुमानि तेषां पात्री-भाजनं, अथवा उन्मुद्रतामरसदामान्येव लम्बत्वाल्लतास्तासामन्तपात्रीसमीपभाजनम् / कदाचिद् उन्मुद्राणि-अपर्यन्तानि तामरसानि सुरनिर्मितानि रेखात्मकानि वा दयत इति उन्मुद्रतामरसदा, यदिवा उन्मुत्-उद्गतहर्षं, यद् रतं तत्र आमः-प्रत्यग्रो यो रसोऽभिलाषस्तं द्यतीति उन्मुद्रतामरसदा / ‘आमलतान्तपात्री' आमलता-रोगवल्ली तस्या अन्तो-विनाशस्तस्य पात्री-भाजनम् / 'पाद्मप्रभी' पद्मप्रभसंबन्धिनी / 'प्रविदधातु' करोतु / ‘सतां साधूनाम् / ‘वितीर्णमुत्' दत्तप्रीतिः / 'मुद्रतामरसदा' मुदा रता अमरसदः-सुरसभा यस्याः सा / 'मलतान्तपात्री' मलेन-कर्मणा तान्तान्-ग्लानान् पात्री-रक्षणशीला / पाद्मप्रभी पावद्वयी प्रमोदं प्रविदधातु इति संबन्धः / / 21 / / अवचूरिः ____ पद्मप्रभसंबन्धिनी पादद्वयी प्रमोद प्रविदधातु / किंभूता / दलितं विकसितं यदब्जं तद्वत् कोमला | उन्मुद्राणि-विकसितानि तामरसदामानि-कमलमाला लतान्तानि-कुसुमानि तेषां पात्रीव पात्री भाजनम् / यद्वा उन्मुद्रतामरसदामान्येव लम्बत्वाल्लतास्तासामन्तपात्री समीपभाजनम् / सतां वितीर्णमुद् दत्तप्रीतिः / मुदि मुदा वा रता अमरसदा-देवसभा यस्याः सा / मलेन कर्मणा तान्तान्-ग्लानान् पातीति मलतान्तपात्री // 21 / / . समग्रजिनेश्वराणां स्तुतिःसा मे मतिं वितनुताज्जिनपङ्क्तिरस्त मुद्राऽऽगताऽमरसभाऽसुरमध्यगाऽऽद्याम् / - मुद्रा 1. 'मुद्रा गताऽमरसभा सुरमध्यगाद्याम्' इत्यपि पाठः /