________________ 94 शोभनस्तुति-वृत्तिमाला रत्नांशुभिर्विदधती गगनान्तराल मुद्रागतामरसभासुरमध्यगाद् याम् / / 2 // 22 // - वसन्त० ज० वि०-सा मे मतिमिति / सा जिनपङ्क्तिः -अर्हतां श्रेणी मे-मम मतिं-प्रज्ञां वितनुतात्विस्तारयतात् इति क्रियाकारकयोजना / अत्र ‘वितनुतात्' इति क्रियापदम् / का की ? 'जिनपङ्क्तिः ' कां कर्मतापन्नाम् ? ‘मतिम्' / यत्तदोः परस्परमभिसम्बन्धात् सा का ? यां जिनपङ्क्तिं सुरसभा-देवपर्षत् अध्यगात्-प्राप्तवती / अत्रापि ‘अध्यगात्' इति क्रियापदम् / का की ? 'सुरसभा' / कां कर्मतापन्नाम् ? 'याम्' / यां कथंभूताम् ? आद्याम् / सुरसभा कथंभूता ? 'अस्तमुद्रा' अस्ता-क्षिप्ता मुद्रा-पर्यन्तो यया सा तथा / अप्रमाणेत्यर्थः / पुनः कथंभूता ? 'आगता' आयाता / अर्थात् स्वर्गत इति ज्ञेयम् / अनेन विशेषणेन ननु सुरसभायाः सुरलोके सद्भावः जिनपङ्क्तिस्त्विहेति कथं जिनपङ्क्तिं प्रति सुरसभाया अधिगमनं सम्भवेत् ? इति शङ्का व्युदस्ता / पुनः कथंभूता ?. 'असुरमध्यगा' असुराणांभवनवासिदेवविशेषाणां मध्यगा-मध्यवर्तिनी / मुक्तवैरेत्यर्थः / अथवा असुरमध्यगाद्यामिति जिनपङ्क्तेरेव विशेषणम् / तथा चैवं व्याख्या-असुरमध्यगानामाद्यां-प्रथमाम् / प्रथमं पूज्यतयाऽसुरमध्ये जिनपङ्क्तिरेव गच्छति, ततोऽन्ये गणधरादय इति / अत्र यदि अकारप्रश्लेषो न विधीयते तदा सुरमध्यगाद्यामिति विशेषणं भवति तदपि यौक्तिकमेव / अमरसभा किं कुर्वती ? 'विदधती' कुर्वाणा / किं कर्मतापन्नम् ? 'गगनान्तरालं' अन्तरिक्षोदरम् / कथंभूतम् ? 'उद्रागतामरसभासुरम्' उद्रागं-उद्गतरागं यत् तामरसंमहोत्पलं तद्वद्भासुरं-दीप्रम् / रक्तच्छायमित्यर्थः / कैः कृत्वा ? 'रलांशुभिः'.रत्नानां-मुकुटाद्याभरणस्थितानां मणीनां ये अंशवः-किरणास्तैः / इयं विदधतीति क्रिया आगतेत्यनया क्रियया योज्यते / तथा चायं फलितार्थः-मणिमयूखैः अन्तरिक्षोदरं रक्तच्छायं कुर्वन्ती (कुर्वती) आगता सती यामध्यगादिति / / अथ समासः-जिनानां पङ्क्तिः जिनपङ्क्तिः 'तत्पुरुषः' / अस्ता मुद्रा यया सा अस्तमुद्रा 'बहुव्रीहिः' / अमराणां सभा अमरसभा 'तत्पुरुषः' / मध्ये गच्छतीति मध्यगा 'तत्पुरुषः' / असुराणां मध्यगा असुरमध्यगा, यद्वा असुराणां मध्यं असुरमध्यं 'तत्पुरुषः' / असुरमध्यं गच्छतीति असुर० 'तत्पुरुषः' / जिनपङ्क्तिपक्षे तु असुरमध्यगानां सुरमध्यगानां वा आद्या असुरमध्यगाद्या, सुर० वा 'तत्पुरुषः' / तां असुर०, सुर० वा / रत्नानामंशवो रत्नांशवः 'तत्पुरुषः' / तैः रत्नांशुभिः / गगनस्यान्तरालं गगनान्तरालं 'तत्पुरुषः' / तत् गग० / उद्तो रागो यस्मात् तत् उद्रागं 'बहुव्रीहिः' / उद्रागं च तत् तामरसं च उद्राग० 'कर्मधारयः' / उद्रागतामरसवद् भासुरं उद्राग० 'तत्पुरुषः / तत् उद्राग० / / इति काव्यार्थः / / 22 / /