________________ श्रीपद्मप्रभजिनस्तुतयः (2) सि० वृ०-सा मे मतिमिति / सा जिनपङ्क्तिः -अर्हतां श्रेणिः मे-मम मतिं-प्रज्ञां वितनुतात्विस्तारयतादित्यर्थः / विपूर्वक 'तनु विस्तारे' धातोः ‘आशी:प्रेरणयोः' (सा० सू०७०३) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / अत्र ‘वितनुतात्' इति क्रियापदम् / का कर्जी ? / 'जिनपङ्क्तिः ' जिनानां पङ्क्तिः जिनपङ्क्तिः इति 'तत्पुरुषः' / कां कर्मतापन्नाम् ? / मतिम् / कस्य ? / मम / यत्तदोः परस्परमभिसम्बन्धात् सा का ? / यां जिनपति अमरसभा-देवपर्षत् अध्यगात्-प्राप्तवतीत्यर्थः / अधिपूर्वक ‘इण् गतौ' इति धातोः भूते सौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप्। ‘दादे: पे' (सा० सू० 725) इति सिलोपे, ‘इणः (णिकोः) सिलोपे गा वक्तव्यः' (सा० सू० 895) इति गादेशः / 'दिवादावट्' (सा० सू० 707), इयं स्वरे' (सा० सू०३३), 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘अध्यगात्' इति सिद्धम् / अत्र ‘अध्यगात्' इति क्रियापदम् / का कर्जी ? | ‘अमरसभा' अमराणां सभा अमरसभा 'तत्पुरुषः' “स्त्रियां सामाजिके गोष्ठ्या द्युतिमन्दरयोः सभा” इति रभसः / कां कर्मतापन्नाम् ? / याम् / कथंभूतां याम् ? / आदौ भवा आद्या तां आद्यां, आद्यां पूज्यतया प्रथमां इति वा / कथंभूता अमरसभा ? | 'अस्तमुद्रा' अस्ता-अस्तंगता मुद्रा-मानं-इयत्ता यस्याः सा तथा / "मुद्रा स्यादाकृती मुद्रा, मुद्रा मानेऽङ्गुलीयके / पिधानेऽपि भवेन्मुद्रा; मुद्रा कर्णविभूषणे / / " इति नानार्थः / पुनः कथंभूता ? / 'आगता' आयाता अर्थात् स्वर्त [स्वर्गतः] इति ज्ञेयम् / पुनः कथंभूता ? / 'असुरमध्यगा' असुराणां-भवनपतिविशेषाणां मध्ये-विचाले गच्छतीति मध्यगा-मध्यवर्तिनी, मुक्तवैरिणीत्यर्थः / प्राञ्चस्तु असुरमध्यगाद्यामिति जिनपङ्क्तेरेव विशेषणं वदन्ति। तथा च असुरमध्यगानां आद्या-प्रथमां, प्रथमं पूज्यतया असुरमध्ये जिनपङ्क्तिरेव गच्छति, ततोऽन्ये गणधरादय इत्यर्थः / अत्र यद्यकारप्रश्लेषः न क्रियते तदा सुरमध्यगाद्यामितिविशेषणमपि भवति तदपि यौक्तिकमेव / अमरसभा किं कुर्वती ? / विदधती-प्रकुर्वती / किम् ? / 'गगनान्तरालं' गगनस्य-आकाशस्य अन्तरालंमध्यम् / “व्योमान्तरिक्षं गगनं घनाश्रयः” इति हैमः (का० 2, श्लो० 77) / “अभ्यन्तरमन्तरालं, विचालं मध्यमन्तरे” इति हैमः (का०६,श्लो०९६) / कीदृशम् ? | 'उद्रागतामरसभासुरं' उद्रागं-उद्गतरागं यत् तामरसं-महोत्पलं तद्वत् भासुरं-दीप्तं रक्तच्छायमित्यर्थः / उद्गतो रागो यस्मात् तदुद्रागं 'तत्पुरुषः', उद्रागं च तत् तामरसं च इति ‘कर्मधारयः' / कैः कृत्वा ? / 'रत्नांशुभिः' रत्नानां-मुकुटाद्याभरणस्थितानां मणीनां ये अंशवः-किरणास्तैः / “किरणोस्त्रमयूखांशु-गभस्तिधृणिपृश्नयः” इत्यमरः (श्लो० 210) / “रोचिरुस्त्ररुचिशोचिरंशुगोज्योतिरर्चिरुपधृत्यभीशवः” इत्यभिधानचिन्तामणौ (का० 2, श्लो० 13) / इयं विदधतीति क्रिया आगतेत्यनया योज्यते / तथा च मणिमयूखैर्गगनोदरं रक्तच्छायं कुर्वन्ती (कुर्वती) आगता सती यामध्यगादिति फलितार्थः / / 22 / /