________________ शोभनस्तुति-वृत्तिमाला सौ० वृ०-सा मे मतिमिति | सा जिनपंक्तिः-तीर्थंकरपरम्परा मम मतिं वितनुतात् इत्यन्वयः / 'वितनुतात्' इति क्रियापदम् / का की ? / 'जिनपंक्तिः' जिनश्रेणिः / 'वितनुतात्' विस्तारयतु / कां कर्मतापन्नाम् ? / मतिं' बुद्धिम् / कस्य ? / 'मम' / किंविशिष्टा जिनपंक्तिः ? / अस्ता-गता मुद्रा-प्रमाणं यस्याः सा ‘अस्तमुद्रा' / अप्रमाणा इत्यर्थः / पुनः कथंभूता जिनपंक्तिः ? | ‘गता' प्राप्ता / ‘अमरसभा' देवपर्षत् / किंविशिष्टा अमरसभा ? / असुराणां मध्ये गच्छतीति असुरमध्यगा / मुक्तवैरेत्यर्थः / (पुनः कथंभूता जिनपंक्तिः ? | ‘आद्या' प्रथमा / ) पुनः किंविशिष्टा जिनपंक्तिः ? | 'सा' प्रसिद्धा / सा का ? / या जिनपंक्तिः यां आद्यां पर्षदं अध्यगात् इत्यन्वयः / ‘अध्यगात्' इति क्रियापदम् / का की ? | जिनपंक्तिः / 'अध्यगात्' आश्रितवती / कां कर्मतापन्नाम् ? / यां गणधरपर्षदम् / अमरसभा किं कुर्वती ? / 'विदधती' निष्पादयती / किं कर्मतापन्नम् ? / 'गगनान्तरालं' अन्तरिक्षोदरम् / किंविशिष्टं गगनान्तरालम् ? / उत्-प्राबल्येन रागो यस्मिन् तत् उद्रागं, तादृशं यत् तामरसं-कमलं तद्वत् भासुरम् / कैः कृत्वा ? / रलानां-पद्मरागादीनां अंशवः-किरणाः तैः ‘रलांशुभिः' / इति पदार्थः / / अथ समासः-जिनानां पंक्तिः जिनपंक्तिः / अस्ता मुद्रा. यस्याः सा अस्तमुद्रा / अमराणां सभा अमरसभा / असुराणां मध्यं असुरमध्यम्, असुरमध्ये गच्छतीति असुरमध्यगा / आदौ भवा आद्या, तां आद्याम् / रलानां अंशवः रत्नांशवः, तैः रलांशुभिः / विशेषेण दधती या सा विदधती / गगनस्य अन्तरालं गगनान्तरालम् / उत्-प्रावल्येन रागो यस्मिन् तत् उद्रागम्, उद्रागं च तत् तामरसं च उद्रागतामरसं, उद्रागतामरसवद् भासुरं उद्रागतामरसभासुरम्, तद् उद्रागतामरसभासुरम् / / इति द्वितीयवृत्तार्थः / / 22 / / दे० व्या०-सा मे मतिमिति / सा जिनपङ्क्तिः -तीर्थंकरश्रेणिः मे-मम मतिं-बुद्धिं वितनुतात्-दद्यात् इत्यन्वयः / 'तनु विस्तारे' धातुः / ‘वितनुतात्' इति क्रियापदम् / का की ? / 'जिनपंक्तिः' जिनानां पंक्तिः जिनपंक्तिः इति विग्रहः / कां कर्मतापन्नाम् ? / मतिम् / कस्य ? / मे-मम / यत्तदोर्नित्याभिसम्बन्धात् यां जिनपंक्तिं अमरसभा-देवपर्षत् अध्यगात्-प्राप्तवतीत्यन्वयः / इण् गतौ' इति धातुः / अध्यगात्' इति क्रियापदम् / का की ? / 'अमरसभा' अमराणां सभा अमरसभा इति विग्रहः / कां कर्मतापन्नाम् ? / जिनपंक्तिम् / किंविशिष्टां जिनपंक्तिम् ? / आद्याम्-आदिकालभवाम् / अथवा आद्यां पूज्यतया प्रथमाम् / किंविशिष्टा अमरसभा ? / 'अस्तमुद्रा' अस्ता-अस्तंगता मुद्रा-प्रमाणं यस्याः सा तथा अस्तमुद्रा चासौ आगता चेति विग्रहः / पुनः किंविशिष्टा ? / 'असुरमध्यगा' असुराणां-देवानां मध्ये गच्छतीति असुरमध्यगा / एतेनासुरदेवतयोः निसर्गवैरत्वात् तत्क्षणे परस्परं निर्वैरत्वं ध्वन्यते / किं कुर्वती