________________ श्रीपद्मप्रभजिनस्तुतयः अमरसभा ? / विदधती-प्रकुर्वती / किम् ? / 'गगनान्तरालम्' गगनस्य-नभसः अन्तरालं-अभ्यन्तरम् / “अभ्यन्तरमन्तरालम्” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 96) किंविशिष्टं गगनान्तरालम् ? | 'उद्रागतामरसभासुरम्' उत्-प्राबल्येन रागो-रक्तिमा यस्मिन् तत् उद्रागम्, तच्च यत् तामरसं-कमलं तद्वत् भासुरं-दीप्तम् / कैः ? / 'रलांशुभिः' रलानां-हीरकाणां अंशवः-किरणाः तैः / / इति द्वितीयवृत्तार्थः / / 22 / / ध० टीका-सा मे मतिमिति / ‘सा मे मतिं वितनुतात्' सा मम प्रज्ञां विस्तारयतु / 'जिनपङ्क्तिः ' अर्हत्परम्परा / ‘अस्तमुद्रा' अस्ता-क्षिप्ता मुद्रा-पर्यन्तो यया सा अस्तमुद्रा-अपर्यन्ता / 'आगता' आयाता / 'अमरसभा' देवपर्षत् / ‘असुरमध्यगा' असुराणां मध्ये गच्छति या सा, मुक्तवैरेत्यभिप्रायः / ‘आद्यां' आदिकालभवाम् / अथवा असुरमध्यगानां आद्यां-प्रथमां, प्रथमं पूज्यतया असुरमध्ये सा गच्छति, ततोऽन्ये गणधरादय इति / ‘रलांशुभिः' मणिमयूखैः / 'विदधती' कुर्वाणा / 'गगनान्तरालं' अन्तरिक्षोदरम् / ‘उद्रागतामरसभासुरं' उद्रागं-उद्गतरागं यत् तामरसं तद्वत् भासुरं-दीप्तम् / ‘अध्यगात्' प्राप्तवती / ‘यां' / प्रथमान्तानि सर्वाणि अमरसभाविशेषणानि / ता(यां)अध्यगात् अमरसभा सा जिनपङ्क्तिः मे मतिं वितनुतादित्यन्वयः / / 22 / / (6) अवचूरिः सा जिनश्रेणी मम मतिं दद्यात् / अस्तमुद्रा मुक्तप्रमाणा / गता प्राप्ता अमरसभा देवपर्षद जिनपक्तिं अध्यगात् प्राप्तवती / आद्यां प्रथमाम् / किंभूता / असुरमध्यगा असुरमध्ये गच्छतीति / किं कुर्वती / रलांशुभिर्भूषणमणिकान्तिभिर्गगनमध्यं उद्तरागं यत् तामरसं पद्मं तद्वद् भासुरं कुर्वाणा / / 22 / / श्रीसिद्धान्तस्वरूपम्श्रान्तिच्छिदं जिनवरागममाश्रयार्थ माराममानम लसन्तमसङ्गमानाम् / / धामाग्रिमं भवसरित्पतिसेतुमस्त माराममानमलसन्तमसं गमानाम् // 3 // 23 // - वसन्त०