________________ 98 शोभनस्तुति-वृत्तिमाला (1) ज० वि०-श्रान्तिच्छिदमिति / भो भव्य ! प्राणिन् ! त्वं जिनवरागम-भगवत्सिद्धान्तं आनमप्रणमेति क्रियाकारकसंटङ्कः / अत्र ‘आनम' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कं कर्मतापन्नम् ? 'जिनवरागमम्' / कथंभूतं जिनवरागमम् ? 'श्रान्तिच्छिदं' श्रान्तिः-श्रमः तं छिनत्तीति तथा तम् / पुनः कथं० ? 'आरामम्' आराममिवारामम्, उद्यानमित्यर्थः / 'आश्रयार्थं' संश्रयणार्थम्, संश्रयणहेतोरित्यर्थः / केषाम् ? ‘असङ्गमानां' निःसङ्गानां मुनीनामित्यर्थः / पुनः कथं० ? 'लसन्तं' शोभमानम् / पुनः कथं० ?. ‘धाम' स्थानम् / केषाम् ? 'गमानां' सदृशपाठानाम् / पुनः कथं० ? ‘अग्रिमं' प्रधानम् / पुनः कथं० ? ‘भवसरित्पतिसेतुं' भवरूपो यः सरित्पतिः-समुद्रः तत्र सेतुः-तारणबन्धः ‘पाजि' इति प्रसिद्धस्तम् / पुनः कथं० ? 'अस्तमाराममानमलसन्तमसं' मारः-कामः आमः-रोगः मानः-अभिमानः मलः-कालुष्यं एते एव मलीमसात्मकत्वात् सन्तमसं-तमिस्रं तत् अस्तं येन स तथा तम् / / अथ समासः-श्रान्ति छिनत्तीति श्रान्तिच्छित् 'तत्पुरुषः' तं श्रान्तिच्छिदम् / जिनानां जिनेषु वा वराः जिनवराः 'तत्पुरुषः' / जिनवराणामागमः जिनवरा० 'तत्पुरुषः' / जिन० / आश्रय एव अर्थो यस्य तद् आश्रयार्थम् ‘बहुव्रीहिः' / न विद्यते सङ्गमो येषां असङ्गमाः 'तत्पुरुषः' / तेषामसङ्गमानाम् / सरितां पतिः सरित्पतिः 'तत्पुरुषः' / भव एव सरित्पतिर्भवस० 'कर्मधारयः' / भवसरित्पतौ सेतुर्भवस० 'तत्पुरुषः' / तं भवस० / मारश्च आमश्च मानश्च मलश्च माराममानमलाः ‘इतरेतरद्वन्द्वः' / माराममानमला एव सन्तमसं मारा० 'कर्मधारयः' / अस्तं माराममानमलसन्तमसं येन सः अस्तमारा० 'बहुव्रीहिः' / अस्तमारा० / / इति काव्यार्थः / / 23 / / . (2) सि० वृ०-श्रान्तिच्छिदमिति / हे भव्य ! प्राणिन् ! त्वं जिनवरागम-परमेष्ठिसिद्धान्तं आनमप्रणमेत्यर्थः / आङ्पूर्वक ‘णम प्रहीभावे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / ‘अप् कर्तरि' (सा० सू० 691) इत्यप् / 'अतः' (सा० सू० 705) इति हेर्लुक् / तथाच ‘आनम' इति सिद्धम् / अत्र ‘आनम' इति क्रियापदम् / कः कर्ता ? त्वम् / कं कर्मतापन्नम् ? / 'जिनवरागमं' जिनेषु जिनानां वा वराः-श्रेष्ठाः तेषां आगमः-सिद्धान्तस्तं जिनवरागम् / कथंभूतम् जिनवरागमम् ? 'श्रान्तिच्छिदं' श्रान्ति अर्थात् संसारखेदं छिनत्तीति श्रान्तिच्छित्, तं श्रान्तिच्छिदम् / पुनः कथंभूतम् ? 'आरामं' आराममिव आरामं उपवनमित्यर्थः / “आरामः स्यादुपवनं, कृत्रिमं वनमेव यत्” इत्यमरः (श्लो० 652) / किमर्थम् ? / आश्रीयते इत्याश्रयः आश्रय एव अर्थः-प्रयोजनं यस्य