________________ श्रीपद्मप्रभजिनस्तुतयः तत् आश्रयार्थम् / केषाम् ? | ‘असङ्गमानां' नास्ति सङ्गमः-संसारसम्बन्धो येषां ते असङ्गमा मुनयः तेषां असङ्गमानाम् / पुनः कथंभूतम् ? / लसन्तं-शोभमानम् / पुनः कथंभूतम् ? | ‘धाम' स्थानं गृहं वा / "धामागारं निशान्तं च” इति हैमः (का० 4, श्लो० 58) / केषाम् ? / 'गमानां' गमाःसदृशपाठास्तेषाम् / पुनः कथंभूतम् ? / ‘अग्रिमं' प्रधानं सर्वोत्कृष्टत्वादिति भावः / पुनः कथं० ? 'भवसरित्पतिसेतुं' भवःसंसारः स एव सरित्पतिः-समुद्रः तत्र सेतुः-तारणार्थं बन्धविशेषः ‘पाजि' इति प्रसिद्धस्तद्रूपमित्यर्थः / “सेतो पाल्यालिसंवराः” इति हैमः (का० 4, श्लो० 31) / पुनः कथं० ? / 'अस्तमाराममानमलसन्तमसं' मारःस्मरः आमः-रोगः मानः-गर्वः मलः-पापं मारश्च आमश्च मानश्च मलश्च माराममानमलाः ‘इतरेतरद्वन्द्वः' / “मदनो मन्मथो मारः, प्रद्युम्नो मीन-केतनः” इत्यमरसिंहः (श्लो० 49), “मधुदीपमारौ मधुसारथिः स्मरः” इति हैमः (का० 2, 141) “आम आमय आकल्यः” इति हैमः (का० 3, श्लो० 127) / एत एव मलीमसत्वात् सन्तमसं-अन्धकारं तत् अस्तं-निराकृतं येन स तथा तम् / / 23 / / (3) सौ० वृ०-श्रान्तिच्छिदमिति / भो भव्य ! जिनवरागम-तीर्थंकरप्रवचनं आनम इत्यन्वयः / 'आनम' इति क्रियापदम् / कः कर्ता ? / त्वम्' / 'आनम' प्रणम | कं कर्मतापन्नम् ? / 'जिनवरागमम्' / किंविशिष्टं जिनवरागमम् ? | श्रान्तिः-श्रमः तं छिनत्तीति श्रान्तिच्छित् (तं श्रान्ति०') / पुनः किंविशिष्टं जिनवरागमम् ? | ‘आरामं' उद्यानम् / किमर्थम् ? | ‘आश्रयार्थं' सकलसुखनिवासार्थम् / केषाम् ? / 'असङ्गमानां' जितेन्द्रियाणां-साधूनाम् / किविंशिष्टं आरामम् ? / 'लसन्तं' देदीप्यमानम् / किंवि० जिनवरागमम् ? | ‘धाम' गृहम् ? / केषाम् ? / 'गमानां' सदृशपाठानाम् / किंवि० धाम ? / 'अग्रिमं' प्रधानम् / पुनः किंवि० जिनवरागमम् ? / भवः-संसारः चतुर्गतिलक्षणः स एव सरित्पतिः-समुद्रः तस्य सेतुः-पालिरिव पालिः भवसरित्पतिसेतुः तं भवसरित्पतिसेतुम्' / पुनः किंवि० जिनवरागमम् ? / अस्तागता मारः-कामः आमाः-रोगाः मानः-अहङ्कारः मलः-कर्ममलः सन्तमसं-अज्ञानं, एतानि गतानि यस्मात् सः अस्तमाराममानमलसन्तमसः तं 'अस्तमाराममानमलसन्तमसम्' / एतादृशं जिनवरागमं प्रणम | इति पदार्थः / / अथ समासः-श्रान्ति छिनत्तीति श्रान्तिच्छित्, तं श्रान्तिच्छिदम् / जिनेषु वराः जिनवराः, जिनवराणां आगमः जिनवरागमः, तं जिनवरागमम् / आश्रीयते इत्याश्रयः, आश्रयाय इति आश्रयार्थम् / न विद्यते सङ्गमः-भवाभिष्वङ्गो येषां ते असङ्गमाः, तेषां असङ्गमानाम् / अग्रे भवं अग्रिमम्, तद् अग्रिमम् / सरितां पतिः सरित्पतिः, भव एव सरित्पतिः भवसरित्पतिः, भवसरित्पतौ सेतुरिव सेतुः भवसरित्पतिसेतुः, तं भवसरित्पतिसेतुम् / मारश्च आमश्च मानश्च मलश्च सन्तमसं च माराममानमलसन्तमसानि,