________________ 100 शोभनस्तुति-वृत्तिमाला अस्तानि माराममानमलसन्तमसानि यस्मिन् अस्तमाराममानमलसंतमसम् / गम्यन्ते-प्राप्यन्ते अर्था एभिः इति गमाः / / इति तृतीयवृत्तार्थः / / 3 / / दे० व्या०-श्रान्तिच्छिदमिति / जिनवरागम-जिनवराणां-तीर्थंकराणां आगम-सिद्धान्तं त्वं आनमनमस्कुरु इत्यन्वयः / ‘णम प्रहीभावे' धातुः / 'आनम' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? / जिनवरागमम् / किंविशिष्टं जिनवरागमम् ? / आराम-कृत्रिमं वनम् / “आरामः कृत्रिमे वने” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 177) / केषाम् ? / ‘असङ्गमानां' नास्ति सङ्गमः-सम्बन्धो येषां ते असङ्गमाः-मुनयः तेषाम् / किमर्थम् ? / आश्रयार्थ-आश्रयकृते / पुनः किंविशिष्टम् ? | 'श्रान्तिच्छिदम्' श्रान्ति-परिश्रमं छिनत्तीति श्रान्तिच्छित् तम् / पुनः किंविशिष्टम् ? / लसन्तं-शोभमानम् / आगमविशेषणद्वयमेतदिति प्राञ्चः / पुनः किंविशिष्टम् ? / अग्रिमं-प्रधानम् / पुनः किंविशिष्टम् ? / धामगृहम् / “धामागारं निशान्तं च” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 58) / केषाम् ? / 'गमानाम्' गमाः-सदृशपाठाः तेषाम् / केचित् तु अग्रिममिति पदं धाम्नो विशेषणं वदन्ति / पुनः किंविशिष्टम् ? | 'भवसरित्पतिसेतुम्' भवः-संसारः स एव सरित्पतिः-समुद्रः तत्र सैतुं-तरणबन्धम् / पुनः किंविशिष्टम् ? 'अस्तमाराममानमलसन्तमसम्' मारः-कामः अमो-रोगः मानः-अहङ्कृतिः मलः-पापं कर्म वा सन्तमसंअज्ञानम्, एतेषां पूर्वं 'द्वन्द्वः' पश्चात् अस्तं-ध्वस्तं माराममानमलसन्तमसं येनेति 'तृतीयाबहुव्रीहिः' / / इति ‘तृतीयवृत्तार्थः / / 23 / / ध० टीका-श्रान्तिच्छिदमिति / 'श्रान्तिच्छिदं' श्रमहारिणम् / 'जिनवरागम' जिनेन्द्रमतम् / 'आश्रयार्थं' संश्रयहेतोः / ‘आराम' उद्यानम् / 'आनम' प्रणम / 'लसन्तं' शोभायमानम् / ‘असङ्गमानां' निःसङ्गानां मुनीनामित्यर्थः / ‘धाम' स्थानम् / ‘अग्रिमं' प्रधानम् / ‘भवसरित्पतिसेतुं' संसारवारिधितरणबन्धम् / 'अस्तमाराममानमलसन्तमसं' मारश्च आमश्च मानश्च मलाश्च त एव मलीमसात्मकत्वात् सन्तमसं-तमिस्रं तदस्तं येन तम् / 'गमानां' पूर्वोक्तलक्षणानाम् / असङ्गमानामाश्रयार्थं आरामं गमानां धाम जिनवरागममानमेति संबन्धः / / 23 / / अवचूरिः हे लोक ! जिनेन्द्रागममानम / किंभूतम् / श्रमभेदकम् / आश्रयहेतोराराममिवारामम् / लसन्तं