________________ श्रीपद्मप्रभजिनस्तुतयः 101 पप. शोभमानम् / केषाम् / असंगमानाम् / निःसङ्गानां मुनीनामित्यर्थः / अग्रिमं प्रकृष्टं धाम गृहम् / केषाम् | गमानां सदृशपाठानाम् / संसारसमुद्रसेतुम् / अस्ताः (ध्वस्ताः) कामरोगाहंकारपापाज्ञानानि येन / / 23 / / गान्धारीदेवीस्तुतिःगान्धारि ! वज्रमुसले जयतः समीर पातालसत्कुवलयावलिनीलभे ! ते / कीर्तीः करप्रणयिनी तव ये निरुद्ध पातालसत्कुवलया बलिनी लभेते // 4 // 24 // - वसन्त० ज० वि०-गान्धारीति / हे गान्धारि ! गान्धारीनामिके (?) ! तव करप्रणयिनी-हस्तसङ्गते ते वज्रमुसले-प्रहरणजाती जयतः-जयमनुभवतः इति क्रियाकारकसम्वन्धः / अत्र ‘जयतः' इति क्रियापदम् / के कर्तृणी ? 'वज्रमुसले' / कथंभूते ? 'करप्रणयिनी' / कस्याः ? 'तव' / पुनः कथं० ? 'बलिनी' पराक्रमयुक्ते / बवयोरैक्यं तु यमकवशात् / यत्तदोर्नित्याभिसम्बन्धात् यच्छब्दघटनामाह-ये वज्रमुसले कीर्तीः-साधुवादरूपा लभेते-प्राप्तुतः / अत्रापि ‘लभेते' इति क्रियापदम् / के कर्तृणी ? 'ये' / काः कर्मतापन्नाः ? 'कीर्तीः / कथंभूताः कीर्तीः ? 'निरुद्धपातालसत्कुवलयाः' निरुद्धं-आवृतं पातालसदांरसातलवासिनां कुवलयं-पृथ्वीमण्डलं याभिः / यदिवा पातालं सत्-शोभनं कुवलयं ते निरुद्धे याभिस्तास्तथा ताः / अवशिष्टं त्वेकं गान्धार्या देव्याः सम्बोधनम् / तस्य व्याख्या यथा-'हे समीरपातालसत्कुवलयावलिनीलभे !' समीरपातेन-वातप्रेखोलनेन आलसन्ती-दोलायमाना या कुवलयावलिःकुमुदश्रेणिः तद्वन्नीला भा-दीप्तिर्यस्याः सा तथा तस्याः सम्बो० हे समीर० / / .. अथ समासः-वज्रं च मुसलं च वज्रमुसले 'इतरेतरद्वन्द्वः' / समीरस्य पातः समीरपातः 'तत्पुरुषः' / समीरपातेन आलसन्ती समीरपातालसन्ती 'तत्पुरुषः' / कुवलयानामावलिः कुवल० 'तत्पुरुषः / ' समीरपातालसन्ती चासौ कुवलयावलिश्च समीर० 'कर्मधारयः' / समीरपातालसत्कुवलयावलिवन्नीला समीर० 'तत्पुरुषः' / समीरपातालसत्कुवलयावलिनीला भा यस्याः सा समीर० ‘बहुव्रीहिः' | तत्सम्बो० हे समीर० / करयोः प्रणयिनी कर० 'तत्पुरुषः' / पाताले सीदन्तीति पातालसद: 'तत्पुरुषः' / कोः वलयं कुवलयं 'तत्पुरुषः' / पातालसदां कुवलयं पाताल० 'तत्पुरुषः' / निरुद्धं पातालसत्कुवलयं