________________ 102 शोभनस्तुति-वृत्तिमाला याभिस्ताः निरुद्ध० 'बहुव्रीहिः' / यद्वा सच्च तत् कुवलयं च सत्कुवलयं 'कर्मधारयः' / पातालं च सत्कुवलयं च पातालसत्कुवलये 'इतरेतरद्वन्द्वः' / निरुद्धे पातालसत्कुवलये याभिस्ताः निरुद्धपा० 'बहुव्रीहिः' / ताः निरुद्धपाता० / / इति काव्यार्थः / / 24 / / // इति श्रीमद्वृद्धपण्डितश्रीदेवविजयगणिशिष्यपण्डितजयविजयगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीपद्मप्रभजिनस्तुतेर्व्याख्या // 4 / 6 / 24 // // प्रथमांशः समाप्तः // (2) सि० वृ०-गान्धारीति / गां-पृथ्वी धारयतीति गान्धारी पृषोदरादिः, तस्याः सम्बोधनं हे गान्धारि ! / “गौर्गोत्रा भूतधात्री क्ष्मा, गन्धमाताऽचलाऽवनी” इति हैमः (का० 4, श्लो० 2) / गान्धारीनामके ! तव करप्रणयिनी-हस्तसङ्गते ते वज्रमुसले-आयुधविशेषौ जयतः-सर्वोत्कर्षेण जयमनुभवत इत्यर्थः / 'जि जये' धातोः कर्तरि वर्तमाने परस्मैपदे प्रथमपुरुषद्विवचनं तस् / ‘अप् कर्तरि' (सा० सू० 691) इत्यप्, ‘गुणः' (सा० सू० 692), ‘ए अय् (सा० सू० 41), 'स्वरहीनं०' (सा० सू० 36), 'सोर्विसर्गः' (सा० सू० 124) / तथा च ‘जयतः' इति सिद्धम् / अत्र 'जयतः' इति क्रियापदम् / के कर्तृणी ? / 'वज्रमुसले' वजं-कुलिशं मुसलं-शस्त्रविशेषः, वजं च मुसलं च वज्रमुसले 'इतरेतरद्वन्द्वः' / मुसलशब्दोऽदन्त्योऽप्यस्ति / कथंभूते वज्रमुसले ? / 'करप्रणयिनी' करे-हस्ते प्रणयःसौहार्द परिचयो वा विद्यते ययोस्ते करप्रणयिनी / “प्रणयः स्यात् परिचये याञ्चायां सौहृदेऽपि च” इति शाश्वतः / कस्याः ? / तव-भवत्याः / पुनः कथंभूते ? / 'बलिनी' बलः-पराक्रमः सामर्थ्यमिति यावत् विद्यते ययोस्ते बलिनी, पराक्रमयुक्ते इत्यर्थः / “स्थौल्यसामर्थ्यसैन्येषु बलम्" इत्यमरः (श्लो० 2726) / बवयोरैक्यं तु यमकवशात् / यत्तदोः सापेक्षत्वात् सा का ? / ये वज्रमुसले कीर्तीः-साधुवादरूपाः लभेतेप्राप्नुतः / 'लभ लाभे' वर्तमाने कर्तरि आत्मनेपदे प्रथमपुरुषद्विवचनम् / अत्रापि 'लभेते' इति क्रियापदम् / के कर्तृणी ? / ये / काः कर्मतापन्नाः ? / कीर्तीः / “कीर्तिः प्रसादयशसो-विस्तारे कर्दमेऽपि च” इति विश्वः / कथंभूताः कीर्तीः ? / 'निरुद्धपातालसत्कुवलयाः' निरुद्धं-आवृतं पातालसदां-पातालेपृथिव्या अधोभागे सदांसि-गृहाणि येषां ते पातालसदः-रसातलवासिनः तेषां कुवलयं-कोः-पृथिव्याः वलयं कुवलयं याभिः / यद्वा पातालं सत्-शोभनं कुवलयं च याभिस्तास्तथा / “स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च / इन्दीवरं च नीलेऽस्मिन्” इत्यमरः (श्लो० 540-41) / “ज्या कुर्वसुमती मही” इति हैमः (का० 4, श्लो० 2) / अवशिष्टं त्वेकं गान्धार्या देव्याः सम्बोधनम् / तस्यं व्याख्या त्वेवम्-हे 'समीरपातालसत्कुवलयावलिनीलभे !' समीरस्य-वायोः पातेन-प्रेजोलनेन आलसन्ती-दोलायमाना या