________________ श्रीपद्मप्रभजिनस्तुतयः 103 कुवलयानां-कैरवाणां आवलिः-पङ्क्तिः तद्वन्नीला-हरिता भा-दीप्तिर्यस्याः सा तथा तस्याः सम्बोधनं हे समीर० / वसन्ततिलकाच्छन्दः / “ख्याता वसन्ततिलका तभजा जगौ गः” इति च तल्लक्षणम् / / 24 / / 4 / 6 / 24 // (3) सौ० वृ०-गान्धारीति / हे गान्धारिनाम्नि देवि ! ते वज्रमुशले जयतः इत्यन्वयः / 'जयतः' इति क्रियापदम् / के कर्तृणी ? / वज्रमुशले / 'जयतः' जयं प्राप्नुतः / किंविशिष्टे वज्रमुशले ? / समीरःपवनः तस्य पातः-प्रेढोलनं तेन आ-ईषत् मर्यादया लसन्ती-देदीप्यमाना या कुवलयानां-कमलानां आवलिः-श्रेणिः तद्वत् नीला भा-प्रभा ययोः ते 'समीरपातालसत्कुवलयावलिनीलभे' / पुनः किंविशिष्टे वज्रमुशले ? / ते / ते के ? | ये वज्रमुशले कीर्तीः लभेते इत्यन्वयः / 'जयतः' इति क्रियापदम् / के कर्तृणी ? / ये वज्रमुशले / 'लभेते' प्राप्नुतः / काः कर्मापन्नाः ? / 'कीर्तीः' सर्वदिग्वर्तिनीः श्लाघाः / पुनः किंविशिष्टे वज्रमुशले ? / 'करप्रणयिनी' करस्नेहवती / करस्थे इत्यर्थः / कस्याः ? / 'तव' भवत्याः / निरुद्धपातालसत्कुवलयास्ता निरुद्धपातालसत्कुवलयाः / पुनः किंविशिष्टे वजमुशले ? / 'बलिनी' बलयुक्ते / एवंविधे वज्रमुशले जयतः / इति पदार्थः / / : अथ समासः-पूर्वभवापेक्षया गान्धारदेशोत्पन्नत्वात् गान्धारी, तस्याः सं० हे गान्धारि / वजं च मुशलं च वज्रमुशले / समीरस्य पातः समीरपातः, समीरपातेन आ-ईषत् लसन्ती समीरपातालसन्ती, कुवलयानां आवलिः कुवलयावलिः, समीरपातालसन्ती चासौ कुवलयावलिश्च समीरपातालसत्कुवलयावलिः, समीरपातालसत्कुवलयावलिवत् नीला भा ययोः ते समीरपातालसत्कुवलयावलिनीलभे / करे प्रणयः-स्नेहोऽस्ति ययोः ते करप्रणयिनी / सत् च तत् कुवलयं च सत्कुवलयं, पातालं च सत्कुवलयं च पातालसत्कुवलयं, निरुद्धं पातालसत्कुवलयं याभिस्ता निरुद्धपातालसत्कुवलयाः / बलं विद्यते ययोस्ते बलिनी / / इति तुर्यवृत्तार्थः / / 24 / / श्रीपद्मप्रभदेवस्य, स्तुतेरों लिवीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // // इति पद्मप्रभजिनस्तुतिवृत्तिः // 4 / 6 / 24 // (4) दे० व्या०-गान्धारीति / हे गान्धारि ! देवि ! ते-तव वज्रमुसले-आयुधे जयतः-सर्वोत्कर्षेण वर्तेते इत्यन्वयः / 'जि जये' धातुः / 'जयतः' इति क्रियापदम् / के कर्तृणी ? / 'वज्रमुसले' वज्रं-कुलिशं मुसलं-शस्त्रविशेषः अनयोर्द्वन्द्वः / किंविशिष्टे वज्रमुसले ? / 'समीरपातालसत्कुवलयावलिनीलभे'