________________ 104 शोभनस्तुति-वृत्तिमाला समीरस्य वायोः पातः-पतनं तेन आ-समन्तात् लसन्ती-शोभायमाना या कुवलयमाला-कमलश्रेणिः तद्वत् नीला-हरिता भा-कान्तिर्ययोस्ते तथोक्ते / पुनः किंविशिष्टे ? / 'बलिनी' बलं-सारं विद्यते ययोस्ते तथोक्ते / पुनः किंविशिष्टे ? / 'करप्रणयिनी' करे-हस्ते प्रणयः-स्नेहो विद्यते ययोः ते तथोक्ते, अनवरतं तयोर्हस्ते एव धियमाणत्वात् / कस्याः ? | तव-भवत्याः / यत्तदोर्नित्याभिसम्बन्धात् ये वज्रमुसले कीर्ती:यशांसि लभेते-प्राप्नुतः / 'लभ लाभे' धातुः / किंविशिष्टाः कीर्तीः ? / 'निरुद्धपातालसत्कुवलयाः' निरुद्धं-आवृतं पातालसदां-पातालवासिनां कुवलयं-पृथ्वीवलयं आभिः तास्तथोक्ताः / निरुद्धं पातालं सत्-शोभनं कुवलयं-पृथ्वीवलयं च याभिः तास्तथोक्ताः इत्यर्थो वा / इति चतुर्थवृत्तार्थः / / वसन्ततिलकाच्छन्दः / “ख्याता वसन्ततिलका तभजा जगौ गः” इति तल्लक्षणम् / / 24 / / 4 / 6 / 24 // ध० टीका-गान्धारीति / 'गान्धारि !' गान्धारीनामिके ! / 'वज्रमुसले' प्रहरणजाती / ‘जयतः' जयमनुभवतः / ‘समीरपातालसत्कुवलयावलिनीलभे ते' समीरपातेन-वातप्रेढोलनेन आलसन्तीदोलायमाना या कुवलयावलिः तद्वन्नीला भा-दीप्तिर्यस्याः सा / आमन्त्र्यते वज्रमुसले / 'कीर्तीः' साधुवादरूपाः / किंविधे वज्रमुसले ? 'करप्रणयिनी' हस्तस्थिते / 'तव' भवत्याः / 'ये' वज्रमुसले / किंविशिष्टाः कीर्तीः ? 'निरुद्धपातालसत्कुवलयाः' निरुद्धं-आवृतं पातालसदां-रसातलवासिनां कुवलयं-पृथ्वीमण्डलं पाताललक्षणं यकाभिस्ताः, यदिवा निरुद्धं पातालं सत्-शोभनं कुवलयं वेति विग्रहः / 'बलिनी' सारयुक्ते / ‘लभेते' प्राप्तुतः / हे गान्धारि ! तव करप्रणयिनी ते वज्रमुसले जयतो ये कीर्तीः लभेते इति योगः / / 24 / / 4 / 6 / 24 // अवचूरिः हे गान्धारि देवि ! ते वज्रमुसले आयुधे जयतः / किंभूते / वातप्रेढोलनेनालसन्ती या कुवलयमाला तद्वन्नीला भा कान्तिर्ययोः / ये वज्रमुसले कीर्तीर्यशांसि लभेते / किंभूते / तव हस्तस्नेहले / वलिनी बलवती / कीर्तीः किंभूताः / निरुद्धमावृतं पातालं सत्पृथ्वीवलयं च याभिः / / 24 / / 4 / 6 / 24 / /