________________ श्रीसुपार्श्वजिनस्तुतयः 105 7 श्रीसुपार्धजिनस्तुतयः अथ श्रीसुपार्धजिनस्मरणम्कृतनति कृतवान् यो जन्तुजातं निरस्त स्मरपरमदमायामानबाधायशस्तम् / सुचिरमविचलत्वं चित्तवृत्तेः सुपार्वं स्मर परमदमाया मानवाधाय शस्तम् // 1 // 25 // - मालिनी (8, 7) - ज० वि०-कृतनतीति / हे मानव ! त्वं चित्तवृत्तेः-मनोव्यापारस्य अविचलत्वं एकाग्रतां आधायकृत्वा तं सुपार्वं-सुपार्श्वनामानमर्हन्तं सुचिरं-प्रभूतकालं स्मर-ध्यायेति क्रियाकारकसम्बन्धः / मानवेत्यत्र बवयोरैक्यं तु यमकवशादेव / अत्र ‘स्मर' इति क्रियापदम् / कः कर्ता ? 'त्वम्' | कं कर्मतापन्नम् ? 'सुपार्श्वम्' / कथम् ? 'सुचिरम्' / सुपाश्र्वं कथंभूतम् ? 'शस्तं' शोभनम् / किं कृत्वा ? 'आधाय' / किं कर्मतापन्नम् ? अविचलत्वम् / कस्याः ? 'चित्तवृत्तेः' / कथंभूतायाः ? ‘परमदमायाः' परम-उत्कृष्टो दम-उपशमो यस्याः सा तथा तस्याः / यत्तदोरभिसम्बन्धात् तं कम् ? यः सुपार्श्वः कृतनति-कृतप्रणाम जन्तुजातं-प्राणिसमूहं 'निरस्तस्मरपरमदमायामानबाधायशः' स्मरः-कामः परे-शत्रवः मदोजात्याद्यष्टविधः माया-कपटात्मिका मानः-अभिमानः बाधा-पीडा अयशः-अकीर्तिः एतानि निरस्तानि