________________ 106 शोभनस्तुति-वृत्तिमाला अपनीतानि येन तत् तथा, एतादृशं कृतवान्-चक्रे इति क्रियाकारकान्वयः / अत्रापि ‘कृतवान्' इति क्रियापदम् / कः कर्ता ? 'यः' / किं कर्मतापन्नम् ? 'जन्तुजातम्' / कथंभूतं कृतवान् ? 'निरस्तरमरपरमदमायामानबाधायशः' / कथंभूतं सत् ? ‘कृतनति' / / अथ समासः-कृता नतिर्येन तत् कृतनति ‘बहुव्रीहिः' / तत् कृतः / जन्तूनां जातं जन्तुजातं 'तत्पुरुषः' / तज्जन्तुजातम् / स्मरश्च परे च मदश्च माया च मानश्च बाधा च अयशश्च स्मरपरमदमायामानबाधायशांसि ‘इतरेतरद्वन्द्वः' / निरस्तानि स्मरपरमदमायामानबाधायशांसि येन तद् निरस्तस्मरपर० 'बहुव्रीहिः' / तन्निरस्तस्मर० / न विचलत्वं अविचलत्वं तत्पुरुषः' / तद् अविचलत्वम् / चित्तस्य वृत्तिः चित्तवृत्तिः 'तत्पुरुषः' / तस्याः चित्तवृत्तेः / शोभनानि पाङनि यस्य स सुपार्श्वः 'तत्पुरुषः' / परमो दमो यस्याः सा परमदमा 'बहुव्रीहिः' / तस्याः परमदमायाः / / इति काव्यार्थः / / 25 / / (2) सि० वृ०-कृतनतीति / मनोः अपत्यं मानवस्तस्य सम्बोधनं हे मानव ! त्वं चित्तवृत्तेःचित्तव्यापारस्य अविचलत्वं-एकाग्रतां आधाय-कृत्वा तं सुपार्श्व-सुपार्श्वनामानमर्हन्तं सुचिरं-प्रभूतकालं स्मर-ध्यायेत्यर्थः / मानवेत्यत्र बवयोरैक्यं तु यमकवशादेव। ‘स्मृ चिन्तायां' 'आशीः प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / 'अप् कर्तरि' (सा० सू० 691) इत्यप्, ‘गुणः' (सा० सू० 692) इति सूत्रेण गुणः, ‘अतः' (सा० सू० 705) इति हेर्लुक्, ‘स्वरहीनं०' (सा० सू० 36) / तथा च ‘स्मर' इति सिद्धम् / अत्र ‘स्मर' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्तापन्नम् ? / सुपार्श्वम् / कथम् ? / सुचिरम् / कथंभूतं सुपार्शम् ? / शस्तं-शोभनम् / किं कृत्वा ? / आधाय / 'समानकर्तृकयोः [पूर्वकाले]' (पा० अ० 3, पा० 4, सू० 21) इति क्त्वाप्रत्ययः / क्त्वो ल्यप् अव्ययत्वाच्च विभक्तिलोपः / किम् ? / अविचलत्वम् / कस्याः ? / 'चित्तवृत्तेः' चित्तस्य-मनसः वृत्तिःव्यापारः इतस्ततो भ्रमणरूपः तस्याः / कथंभूतायाः चित्तवृत्तेः ? / 'परमदमायाः' परमः-प्रकृष्टः दमःदमनं यस्याः सा तथा तस्याः / यत्तदोरभिसम्बन्धात् तं कम् ? / यः सुपार्थः ‘कृतनति' कृता नतिःप्रणामः येन तत् कृतनति जन्तोः-प्राणिनः जातं-समूहं जन्तुजातं' 'निरस्तस्मरपरमदमायामानबाधायशः' स्मरः-कामः परे-शत्रवः मदो-जात्याद्यष्टविधः माया-कपटात्मिका मानः-अभिमानः, बाधा-पीडा अयशः-दुर्वादः एतानि निरस्तानि-अपनीतानि येन तत् तथा एतादृशं चक्रे-कृतवानित्यर्थः / 'डुकृञ् करणे' धातोः परोक्षायां कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनम् / कृ ए इति स्थिते, 'द्विश्च' (सा० सू० 710) द्वित्वम्, 'रः' (सा० सू० 768 ?) इति पूर्वसम्बन्धिनः [ऋकारस्याकारो भवति], 'कुहोश्चः' (सा० 1. लौकिकमतस्याऽनुवादात्मकमिदं विधानम् जिनप्रवचने तस्याऽस्वीकारात् / 2. कृतवान्' पदस्य श्लोकेनोद्गीर्णत्वादत्र 'चक्रे' इति पदं व्याख्यायां संभवेत् /