________________ श्रीसुपार्श्वजिनस्तुतयः 107 सू० 746), 'ऋ रं' (सा० सू० 39), 'स्वरहीनं०' (सा० सू० 36) / तथा च 'चक्रे' इति सिद्धम् / स्मरश्च परे च मदश्च माया च मानश्च बाधश्च अयशश्च स्मरपरमदमायामानबाधायशांसि ‘इतरेतरद्वन्द्वः', ततः निरस्तानि स्मरपरमदमायामानबाधायशांसि येन इति ‘बहुव्रीहिः' / / 25 / / सौ० वृ०-यः पद्मप्रभुः-पद्मभासुरः तस्य पार्श्व-समीपं शोभनमेव भवति / अनेन सम्बन्धेनायातस्य सप्तमश्रीसुपार्श्वजिनस्य स्तुतिव्याख्यानं लिख्यते / कृतनतीति / हे मानव ! त्वं सुपार्श्वजिनं स्मर इत्यन्वयः / ‘स्मर' इति क्रियापदम् / कः कः ? / त्वम् / ‘स्मर' ध्याय / कं कर्मतापन्नम् ? | ‘सुपाच' शोभनपार्श्व, सुपार्श्वनामानं जिनम् / किंविशिष्टं सुपार्श्वम् ? / 'शस्तं' प्रशस्तम् / किं कृत्वा ? | 'आधाय' स्थाप्य / किं कर्मतापन्नम् ? / 'अविचलत्वं' स्थिरत्वम् / कथम् ? / 'सुचिरं' शोभनं चिरकालं यथा स्यात् तथा / कस्याः ? / 'चित्तवृत्तेः' मनोव्यापारस्य / किंविशिष्टायाश्चित्तवृत्तेः ? / परमः-प्रकृष्टो दमो-वशीकृतेन्द्रियव्यापारो यस्याः सा यया वा परमदमा तस्याः ‘परमदमायाः' / पुनः किंविशिष्टं सुपार्श्वम् ? / 'तं' प्रसिद्धम् / तं कम् ? / यो जिनः जन्तुजातंप्राणिसमूहं कृतनति-कृतप्रणामं कृतवान् इत्यन्वयः / ‘कृतवान्' इति क्रियापदम् / कः कर्ता ? / 'यः' भगवान् / 'कृतवान्' विहितवान् / किं कर्मतापन्नम् ? / जन्तुजातम् / किंविशिष्टं जन्तुजातम् ? / कृता नतिः-प्रणामो येन तत् ‘कृतनति' / पुनः किं० जन्तुजातम् ? / निरस्ता-निराकृताः स्मरः-कामः परे-शत्रवः मदो-दर्पः माया-वचनात्मिका मानः-अहङ्कारः बाधा-पीडा अयशः-अकीर्तिः निरस्तस्मरपरमदमायामानबाधाऽयशः (?) तत् निरस्तस्मरपरमदमायामानबाधायशः / एवंविधं जन्तुजातं यो जिनः कृतवान् तं सुपार्वं स्मर इति पदार्थः / / . . अथ समासः-कृता नतिर्येन तत् कृतनति / चकार इति कृतवान् / जन्तूनां जातं जन्तुजातम्, तद् जन्तुजातम् / स्मरश्च परे च मदश्च माया च मानश्च बाधा च अयशश्च स्मरपरमदमायामानबाधायशांसि, निरस्तानि स्मरपरमदमायामानबाधायशांसि येन तत् निरस्तस्मरपरमदमायामानबाधायशः / सुष्ठु-शोभनं चिरं यथा स्यात् तथा सुचिरम् / अविचलस्य भावः अविचलत्वम् / चित्तस्य वृत्तिः चित्तवृत्तिः, तस्याः चित्तवृत्तेः / सु-शोभनं पाश्र्वं यस्य स सुपार्श्वः, तं सुपार्श्वम् / परमो दमो यस्याः सा परमदमा, तस्याः परमदमायाः / मनोः अपत्यं मानवः, तस्य संबो० हे मानव ! / इति मालिनीछन्दसा प्रथमवृत्तार्थः / / 25 / / 1. न तु क्रियापदम्, कृदन्तपदमेतद् तच्च क्रियार्थेऽत्र विहितम् /